________________
१०१
मूलं-१६ शरीरप्रभा तद्वन्तः तेजस्विनः 'वच्छंसित्ति वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवावर्च-तेजःप्रभावइत्यर्थ, तद्वन्तोवर्चस्विनः जसंसित्तियशस्विनः-ख्यातिमन्तःजितक्रधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रधादिजयः-उदयप्राप्तक्रधादि-विफलीकरणतोऽवसेयः।
____ 'जीविआसमरणभयविप्पमुक्छ जीविताशयामरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थ, वयपहाणे ति व्रतं-यतित्वंप्रधानम्-उत्तमंशाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां, व्रतेनवाप्रधानायेतेतथा, निर्ग्रन्थ श्रमणा इत्यर्थ,तेचनव्यवहारतएवेत्यतआह-'गुणप्पहाण'त्ति प्रतीतं, नवरंगुणाः-करुणादयः, गुणप्रान्यमेव प्रपञ्चयन्नाह-'करणप्पहाणे त्यादिविशेषणसप्तकं प्रतीतार्थच, नवरं करणं-पिण्डविशुद्धयादिचरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेर्निषेधनं निश्चयः-तत्वनिर्णयः विहितानुष्ठानेषु व अवश्यंकरणाभ्युपगमः।।
आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं क्षान्तिक्रोधोदयनिग्रह इत्यर्थः, मुक्ति-लोभोदयविनिरोधो विद्याः-प्रज्ञप्तयादिकाः मन्त्रा-हरिणेगमेष्यादिमन्त्राः वेदाः-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठानं वा नया-नीतयः नियमा--अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्याजवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'चारुवण्ण'त्ति सत्कीर्तयः गौराघुदात्तशरीरवर्णयुक्ता वा सप्रज्ञा वा।
'लज्जातवस्सीजिइंदिय'त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपःश्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जा तपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, सोहित्ति सुहृदो-मित्राणि जीवलोकस्येतिगम्यम्, अथवा शोधियोगाच्छोधयःअकलुषहृदया इत्यर्थः, अनियाण त्ति अनिदाना-निदानरहिताः 'अप्पुस्सुय'त्ति अल्पौत्सुक्याऔत्सुक्यवर्जिताः 'अबहिल्लेस'त्तिसंयमादबहिर्भूतमनोवृत्तयः, 'अप्पडिलेस्सा [वा]' अप्रतिलेश्याअतुलमनोवृत्तयः, 'सुसामण्णरय'त्ति अतिशयेन श्रमणकर्मासक्ताः । ___'दंत'त्ति गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थ, इदमेव नैर्ग्रन्थ्यं प्रवचनं 'पुरओकाउंति पुरस्कृत्य-प्रमामीकृत्य विहरन्तीति, कचिदेवं च पठ्यते- 'बहूणं आयरिया' अर्थदायकत्वात् 'बहूणं उवज्झाया' सूत्रदायकत्वात्, बहूनां गृहस्थानां प्रव्रजितानां च दीप इव दीपो मोहतमः पटलपाटनपडुत्वात्, द्वीप इव वा द्वीपः संसारसागरनिमग्नानामाश्वासभूतत्वात्, 'ताणं'ति त्राणमनर्थेभ्योरक्षकत्वात्, 'सरणं'तिशरणमर्थसम्पादकत्वात् गइति गम्यत इतिगतिरभिगमनीया इत्यर्थ, 'पइट्टत्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः॥
मू.(१६-वर्तते) तेसिणंभगवंताणं आयावायावि विदिता भवंति परवाया विदिताभवंति आयावायं जमइत्ता लवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परवादियपमद्दणा --
-दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो अजिणा जिनसंकासा जिना इवअवितहं वागरमाणा संजमेणं तवसा अप्पाणंभावमाणा विहरंति
वृ. तेषां भगवंता 'आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपि समुच्चये,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org