SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपाङ्गसूत्रम् - ५४ सकलोलोकः पूरितो भवति, 'लोयं पडिसाहरइ' त्ति पञ्चमे समये मन्थान्तरापूरकत्वेन ये लोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, 'मंथं पडिसाहरइ' त्ति मध्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, 'कवाडं पडिसाहरइ' ति सप्तमसमये कपाटाकारधारकप्रदेशसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अट्टमे समए दंडं पडिसाहरइ, साहरित्ता सरीरत्थे भवइत्ति, इह यद्यपि संहत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति, द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति । १८२ 'नो मनजोगं नो वयजोगं जुंजइ' त्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविधः काययोगः, तत्र - 'ओरालियसरीरकायजोगं 'ति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः स चानेकधेति औदारिकशरीरेणं विशिष्यते, तत्रोदारैः - शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निर्वृत्तमित्यौदारिकं तच्च तच्छरीरं चेति समासस्तस्य काययोग औदारिकशरीरकाययोगः, 'ओरालियमीससरीकायजोगं' ति औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स यथा, स च कार्मणोदारिकयोर्युगपद्वयापाररूप औदारिकशरीररिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिकवैक्रिययोरीदारिकाहारकयोर्वा युगुपद्वयापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउव्वियसरीरकायजोगं' ति पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं सूक्ष्मतरविशिष्टकार्यकरणक्षमपुद्गलनिर्वृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति । 'वेउव्वियमिस्ससरीरकायजोगं' ति वैक्रियं सन्मिश्रं यत्कार्मणादिना तद्वैक्रियमिश्रं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्वयापाररूपः, स च देवनारकाणामुत्पत्तिकाले यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्यागेनौदारिकं गृह्णतामिति, आहारगसरीरकायजोगं' ति प्राग्वत् नवरम् - आहारका विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम्, अयंच चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, 'आहारगमीससरीरकायजोगं' ति आहारकं सन्मिश्रं यदौदारिकेण तदाहारकमिश्रं तच्च तच्छरीरं चेति, शेषस्तथैव, अयं चाहारकौदारिकयोर्युगपद्वयापाररूपः, स च कृताहारकस्य तत्त्यागेनीदारिकं गृह्णतो भवतीति, 'कम्मगसरीरकायजोगं' ति प्राग्वत्, अयं चापान्तरालती केवलिसमुद्घाते वा स्यादिति, 'पढमट्ठमेसु समएसु' इत्यादेरयमभिप्रायः - जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते तथाऽपीत एव वचनागदसौ कथञ्चिन्नास्तीति मन्तव्यमिति । 'सञ्चमनदजोगं जुंजइ, असच्चामोसामणजोगंपि जुंजइ' ति मनः पर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव अस्ति जीवएवं कुर्वित्यादिकमुत्तरंयच्छन्, 'सच्चवइजोगं' ति जीवादिपदार्थान् प्ररूपयन् ‘असच्चमोसावयजोगं'ति आमन्त्रणादिष्विति, समुद्घातान्निवृत्तश्चान्तर्मुहूर्तेन For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy