SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१ देवाणुप्पिया!मापडिबंध करेह'त्ति भगवद्वचनं, 'तमेव' इदमेवंद्दश्यं-'तमेव चाउग्घंटे आसरहं', 'जामेव' इत्यादि त्वेवं श्यं जामेव दिसंपाउब्भूते तामेव दिसिं पडिगए'त्ति। ___'इंदभूई' इत्यत्र यावत्करणात् 'नामंअनगारे गोयमगोत्तेण मित्यादिश्य, इट्टे'त्ति इष्यते इतीष्टः सच तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह-इष्टरूपः इष्टस्वरूप इत्यर्थ इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याह-कान्तः-कमनीयः कान्तरूपः-कमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थ, एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह-प्रियःप्रेमोत्पादकः प्रियरूपः-प्रीतकारिस्वरूपः, एवंविधश्च लोकरूढितोऽपि स्यादित्यत आह-मनोज्ञः मनसा-अन्तःसंवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवं मनोज्ञरूपः, एवंविधश्चैकदाऽपि स्यादित्यत आह- 'मणामे तिमनसा अम्यते-गम्यतेपुनः पुनः संस्मरणतोयः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह– 'सोमे'त्ति अरौद्रः सुभगो-वल्लभः 'पियदंसणे'तिप्रेमजनकाकारः, किमुक्तंभवति?-सुखवे'त्तिशोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह-'बहुजणस्सवी'त्यादि, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह-- 'साहुजणस्सवी त्यादि। "इमा एयारूव'त्ति इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थ 'किण्णा लद्धति केन हेतुनोपार्जिता, 'किन्ना पत्त'त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय तिप्राप्ताऽपि सती केन हेतुनाआभिमुख्येन साङ्गत्येन च उपार्जनस्यच पश्चाभोग्यतामुपगतेति । 'को वा एस आसि पुव्वभवे' इह यावत्करणादिदं दृश्यं-'किंनामए वा किंवा गोएणं कयरंसिवा गामंसि वा सन्निवेसंसिवा किंवा दचा किंवा भोचा किंवा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिते एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयाख्वा उराला माणुस्सिटी लद्धा पत्ता अभिसमनागय'त्ति। 'जाइसंपन्ना' इह यावत्करणादिदं दृश्यं-'कुलसंपन्ना बलसंपन्ना, एवं विनयनाणदंसणचरित्तलज्जालाघवसंपन्ना ओयंसी तेयंसी व्वंसी जसंसी'त्यादि । 'दूइज्जत्ति 'गामाणुगाणं दुईज्जमाणा' इति द्दश्य, द्रवन्तो-गच्छन्तइत्यर्थ । 'जहागोयमसामी'त्तिद्वितीयाध्ययनेदर्शितगौतमस्वामिभिक्षाचर्यान्यायेनायमपि भिक्षाटनसामाचारी प्रयुङ्क्ते इत्यर्थः। 'सुहम्मे थेरे'त्ति धर्मघोषस्थविरानित्यर्थ, धर्मशब्दसाम्याच्छब्दद्वयस्याप्येकार्थत्वात्। 'पडिलाभिस्सामीति तुडे' इहेदं द्रष्टव्यं-'पडिलाभेमाणेवि तुढे पडिलाभिएवि तुढे'त्ति । 'तस्ससुहम्म(मुहोस्स'त्ति विभक्तिपरिणामात्तेनसुहुमे(मुहे)नेत्तिद्रष्टव्यं, तेनेतिअशनादिदानेन, 'दव्वसुद्धणं ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थ, इहान्यदपि गाहगसुद्धेणं दायगसुद्धेणं तिश्यं, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत एवाह-'तिविहेणं'ति उक्तलक्षणप्रकारत्रयुक्तेनेति 'तिकरणसुद्धणं'ति मनोवाक्कायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थ, ‘एवं आइक्खइत्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् ‘एवं भासइत्ति विशेषत आचष्टे एवं पन्नवेति एवं परवेति' एतच्च पूर्वोक्तरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थं पदद्वयमवगन्तव्यम्, अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः कथयतीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003345
Book TitleAgam Sutra Satik 11 Vipakshrut AngSutra 11
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages86
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy