________________
१२
विपाकश्रुतागसूत्रम् १/१/८ पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइत्ति।
'ऋद्धिस्थिमिए तिऋद्धिप्रधानं स्तिमितंच-निर्भयं यत्तत्तथा, 'वण्णओ'त्तिनगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंते'त्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे'त्ति धूलीप्राकारं 'रिद्ध'त्ति 'रिद्धकत्यमियसमिद्धे' इति द्रष्टव्यम्, 'आभोएत्ति विस्तारः 'रहउडत्ति राष्ट्रकूडे-- मण्डलोपजीवी राजनियोगिकः, अहम्मिएत्तिअधार्मिकोयावत्करणादिदंश्यम्-'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलजणे अधम्मसमुदाचारे अधम्मेणंचेव वित्तिं कप्पेमाणे दुस्सीले दुब्वए'त्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते-'अधम्माणुए' अधर्म-श्रुतचारित्रभावं अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधम्मएव इष्टो-वल्लभः पूजितोवायस्य सोऽधर्मिष्टः अतिशयेन वाऽधर्मी-धर्मवर्जित इत्यधर्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजनः-अधर्मरागीअत एवाधर्मःसमुदाचारः-समाचारो यस्य सतथा, अतएवाधर्मेण-हिंसादिना वृत्ति-जीविकां कल्पयन्सन्दुःशीला:-शुभस्वाभावहीनः दुव्रतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः-साधुदर्शनादिना नानन्धतइति।
___ 'आहेवच्चंति अधिपतिकर्म,यावत्करणादिदं श्यं-'पोरेवचंसामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चंकारेमाणे तितत्रपुरोवर्तित्वं-अग्रेसरत्वंस्वामित्वं-नायकत्वंभर्तृत्व-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन-नियोगिकैर्विधापयन पालयन स्वयमेवेति।
'करेहि यत्ति करैः-क्षेत्राद्याश्रितराजदेयद्रव्यैः ‘भरेहि य'त्ति तेषामेव प्राचुर्यैः 'विद्धीहि य'त्ति वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्गहणैः, वृत्तिभिरिति क्वचित, तत्र वृत्तयो-राजदेशकारिणांजीविकाः, 'उक्कडाहियत्तिलञ्चाभिः पराभएहिय'त्तिपराभवैः ‘देज्जेहि य' अनाभवद्दातव्यैः ‘भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रव्याणि निपततन्ति कौटुम्बिकान् प्रति च भेदेनोद्राह्यन्ते तानि भेद्यानि अतस्तैः 'कुंतेहि यत्ति कुन्तकम् एतावद्रव्यं त्वयादेयमित्येवं नियन्त्रणयानियोगिकस्यदेशादेर्यत्समर्पणमिति, 'लंछपोसेहि य'त्ति लञ्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि यत्ति व्याकुललोकानां मोषणार्थं ग्रामादिप्रदीपनकेः 'पंथकोट्टेहि यत्ति सार्थघातैः 'उदीलेमाणे'त्ति अवपीलयन्-बाधयन् । 'विहम्मेमाणे त्ति विधर्मयन्-स्वाचारभ्रटान् कुर्वन् 'तज्जमाणे'ति कृतावष्टम्भान् तर्जयन्-ज्ञानस्थ रे यन्मम इदं च इदं च न दस्त्वेत्येवं भेषयन् “तालेमाणेत्ति कशचपेटादिभिस्ताडयन् ‘निद्धणेकरेमाणे'त्तिनिर्द्धनान् कुर्वन् विहरति । 'तएणं से इक्कई रहकूड़े विजयवद्धमाणस्सखेडस्ससत्कानांबहूणंराईसरतलवरमाइंबियकोडुंबियसेडिसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयोमडम्बंच-योजनगद्वयाभ्य-न्तरेऽविद्यमानग्रामादिनिवेशः सनिवेशविशेषः शेषाः प्रसिद्धाः,
'कजेसुत्ति कार्येषु-प्रयोजनेषुअनिष्पन्नेषु 'कारणेसु'त्ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषुयेमन्त्रादयो व्यवहरान्तस्तेषु तत्रमन्त्राः-परप्यालोचनानि गुह्यानि-रहस्यानिनिश्चयारहस्यानि निश्चय-वस्तुनिर्णयः व्यवहारा-विवादास्तेषुविषये। 'एयकम्मे एतद्वयापारः एतदेववा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org