________________
द्वारं-१, अध्ययनं ४,
४४९
सम्बन्धिनि पाताललङ्कापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नः, ततस्तेन सह गतः सलक्ष्मणो रामः किष्किन्धपुरे स्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो रणरसिकः सन् तयोर्विशेषमजानंस्तद्वलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीव इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तंकृतचिह्नः पुनर्युद्धस्व, ततोऽसौ पुनर्युध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काश्चनासं विधानकमप्रतीतमिति न लिखितं ।
तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्त्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या जातोऽभिमन्युनामा महाबलः पुत्र इति ।
हित्रिका अप्रतीता। तथा सुवर्णगुलिकायाः कृते सङ्ग्रामोऽभूत्, तथाहि - सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना दास्यभवत्, सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्त्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् सञ्चरन् समायातः, तत्र चागतौऽसौ रोगेणापटुशरीरो जातः तया च सम्यक् प्रतिचरतिः तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्णं गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिकेति नाम्ना प्रसिद्ध अधिमुपगता, ततोऽसौ चिन्तितवती - जाता मे रूपसम्पद्, एतया च किं भर्तृविहीनया ?,
तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किन्तैः ?, ततः उज्जयिन्यः पतिं चण्डप्रद्योत्तराजं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः, आकारिता च तेन सा, तयोक्तम्- आगच्छामि यदिप्रतिमां नयसि, तेनोक्तं- तर्हि श्वो नेष्यामि, ततोऽसौ स्वनगरीं गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मित- प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः प्रभाते च चण्डप्रद्योतगन्धहस्तिवि-मुक्तमूत्रपुरीषगन्धेन विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमा- सुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोज्जयिनीं प्रति प्रस्थितः,
अन्तरा पिपासाबाधित सैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोज्जयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सत्रद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुर्मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान, दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाङ्कितवानिति । किन्नरी सुरूपविद्युन्मती चाप्रतीता।
तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि -अरिष्ठपुरे नगरे रुधिरो नाम राजा मित्रा नाम देवीतत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थं रुधिरेण स्वयंवरो घोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च चाच्या क्रमेणोप
7 129
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org