________________
द्वारं-१, अध्ययनं ४,
एतद्व्यतिकरदर्शन कुपितायां -
- चन्द्रनखायां पुना रामल्मणयोर्दर्शनात् सञ्जातकामायां कृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणेयोद्धुमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरेण लङ्गानगरीत आकाशेन गच्छता रावणेन दृष्ट्वा दृष्ट्वा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरलेन विमुक्तधर्मसंज्ञेन अनाकलितानर्थपरम्परेण विभुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कलसिंहनादसङ्केतकरणेन लक्ष्मणसङ्गामस्थाने गत्वा मुक्ते सिंहनादे चलिते तदभिमुखे रामे एकाकिनी सती अपहता झिगिति नीता च लङ्कायां विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिर्बहुशो न च तमिष्टवती, रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमर्द्द विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनं च विनिपात्य नीता स्वगृहमिति तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहि काम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या तयोः सुता द्रौपदी धृष्टार्जुनस्य कनिष्ठा स्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैर्युधिष्ठरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभार्यया पाण्डवैर्द्रुपद्या च परिवृतस्य सभायां नारदमुनिर्गगनादवततार अभ्युत्थितश्च सपरिवारेण पाण्डुना द्रौपद्या तु श्रमणोपासिकात्वेन मिथ्याधष्टिर्मुनिरयमितिकृत्वा नाभ्युत्थितश्च ततोऽसौ तं प्रति द्वेषमागमत्, अन्यदा चासौ धातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः- किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः ?,
४४७
स पुनरुवाच- द्रौपद्याः पादाङ्गुष्ठस्यापि समानो न रम्यतयाऽयमिति श्रुत्वा चैतज्जातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासमध्येन तामपहतवान्, सा च तं प्रार्थनपरं परिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रोपदीति तद्वार्त्तायां लब्धाया लवणसमुद्राधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पाण्डवैः सरथैः सहामरकङ्काराजघान्या बहिरुद्याने जगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान्, सोऽपि सबलो योद्धुं निर्जगाम, पाण्डवेषु तेन पुनर्महायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ,
ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागं निर्मथितवान् त्रिभागच शार्ङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबले च पद्मनाभे प्राणभयान्नगरीप्रविष्टे कृतनरसिंहरूपेण जनार्दनेन पाददर्दरककरणतः सम्भग्नपाकारगोपुराट्टालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान्, तैः सहेव च स्वक्षेत्रमाजगामेति । तथा रुक्मिण्याः कृते सङाग्रामोऽभूत्, तथाहि - कुण्डिन्यां नगर्यां भीष्मनरपतेः पुत्रस्य रुक्मिमणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्गेहे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org