________________
४४२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९
पिण्डिकायमानंअग्रशिरः-शिरोऽग्रंयेषां तेतथा, हुतवहेन निमातं घौतंतप्तंच यत्तपनीयं-रक्तवर्णं सुवर्णं तद्वद्रक्ता-लोहिता 'केसंतत्ति मध्यकेशा केशभूमि:-मस्तकत्वग येषां ते तथा, शाल्मली-वृक्षविशेषस्तस्य यत्पौण्डं-फलंघननिचितं-अत्यर्थं निबिडछोटितंच घट्टितंतद्वन्मृदवःसकमाराः विशदाः-विस्पष्टाः प्रशस्ता-मङ्गल्याः सूक्ष्माः-लक्ष्णा: लक्षणाः-लक्षणवन्तः सुगन्धयः-- सद्गनधाः सुन्दराः-शोभनाः भुजमोचकोरलविशेषस्तद्वत् भृङ्गः-कीटविशेस्तद्वन्नीलोरत्नविशेषः स इव कजलमिव प्रहष्टभ्रमरगणः-प्रमुदितमधुकरनिकरः स इवच स्निग्धाः-कालकान्तयः निकुरुम्बाः-समूहरूपाः निचिता-अविकीर्णाः कुञ्चिताः-वक्राः प्रदक्षिणावतश्चिअवामवृत्तयो मूर्धनि-शिरसि शिरसिजाः-केशा येषां ते तथा,
सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येवखर:-शब्दः षड़जादिर्वा येषांतेतथा, एवमन्यान्यपि, नवरं ओधेन-अविच्छेदेनावित्रुटितत्वेन स्वरो येषां ते तथा, तथा सुष्टु स्वरस्य-शब्दस्य निर्दोषो–नि दो येषांते तथा, वाचनान्तरेसिंहघोषादिकानि विशेषणानिपठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यःशब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं-अस्थिसञ्चयरूपं येषां ते तथा, तत्र॥१॥ "रसहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि ।
उभओ मकडबन्धो नारायं तं वियाणाहि॥" समचतुरनाभिधानेन संस्थानेन संस्थिता येते तथा, तत्रसमचतुरस्रत्वमूर्ध्वकायाधःकाययोः समग्रस्वस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, ‘पसत्यच्छवि'त्ति प्रशस्तत्वचः निरातङ्का:--नीरोगाः कङ्कस्येव-पक्षिविशेषस्येच ग्रहणी-गुदाशयोनीरोगवर्चस्कतया येषां ते तथा, कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपरिणतिर्येषां ते तथा, कपोतानां हि पाषाणा अपिजीर्यन्त इति श्रुतिः, शकुनेरिव-पक्षिण इव 'पोस'ति अपानं येषां ते तथा, पुरीषोत्सर्गे निर्लेपापाना इत्यर्थः, पृष्ठंचान्तराणिच-पार्श्वदेशः ऊरुच परिणताः--सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मंच-कमलं उत्पलं च-नीलोत्पलं तत्सशो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगःशरीरसमीरणजवो येषां ते तथा, अवदाताः-गौराः स्निग्धाः कालाश्च-श्यामाश्च इति द्वन्द्वः, वैग्रहिकौ-शरीरानुरूपो उन्नती पीनौ कुक्षी-उदरदेशौ येषां तेतथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं ।।
प्रमदा अपि च-स्त्रियोऽपि तेषां-मिथुनकराणां भवन्ति सौम्याः-अरौद्रासुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणैर्युक्ता इति कण्ठ्यं, अतिकान्तौअतिकमनीयौ 'विसप्पमाण'त्ति विशिष्ठस्वप्रमाणौ अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदूनां मध्ये सुकुमालौ कूर्मसंस्थितौ-उन्नतत्वेन कच्छपसंस्थितौ श्लिष्टौ-मनोज्ञौ चलनौ-पादौ यासां तास्तथा, ऋजवः-सरला मृदवः-कोमलाः पीवराः-उपचिताः सुसंहताः-अविरलाः अङ्गुल्यःपादाङ्गलयो यासा तास्तथाअभ्युन्नता-उन्नता रतिदाः-सुखदाः अथवा रचिता इव रचिताः तलिनाः-प्रतलाः ताम्ना-आरक्ताः शुचयः-पवित्राः स्निग्धाः कान्ता नखा यासां तास्तथा,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org