SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ वारं-१, अध्ययनं-१, ३८१ मथितश्च-विलोडितो देहो येषां ते तथा, तथा यन्नत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः 'केइत्य'ति केचिदत्र--नरके सचमकाः-चर्मणासह विकृत्ता-उत्क्लृप्ताः पृथक तवर्माण इत्यर्थः, तथा निर्मूलोल्लूनकोष्ठ- नासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनांप्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, तथा 'कलकल'त्ति कलकलायमानक्षारेण यत्परिक्षिप्तंपरिषेकः तेन गाढं-अत्यतं 'डझंत'त्ति दह्यमानं गात्रं येषां ते तथा, कुन्तानभिन्नो जर्जरितश्च सर्वो देहो येषां ते तता ततः कर्मधारयः, विलोलिंति' विलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'सूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान्तरे तु निर्गताग्रजिह्वाः, ___ 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृकाईहामृगाः 'सुणगतिकौलेयकाः श्रगालाः-गोमायवः काका:-वायसाः मार्जारा-बिडालाःसरभाःपरासराः द्वीपिका:-चित्रकाः 'विग्घय'त्ति वैयाध्राः व्याधापत्यानि शार्दूला-व्याघ्राः सिंहाःप्रतीताः, एते च ते दर्पिताश्च-साः क्षुदभिभूताश्च-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनैःघोरा-दारुणक्रियाकारिणः आरसन्तः--शब्दायमानाः भीमरूपाश्च ये ते तथा तैः, आक्रम्य दढदंष्ट्राभिर्गाढ अत्यर्तं 'डकत्ति दृष्टाः ‘कड्डिय'त्ति कृष्टाश्च आकर्षिता ये ते तथा. सतीक्ष्णनखैः स्फाटित ऊो देहो येषां ते तता ततः पदद्वयस्य कर्मधारयः, विक्षिप्यन्तेविकीर्यन्ते 'समन्ततः सर्वतः, किम्भूतास्ते? विमुक्तसन्धिबन्धनाः-श्लथीकृताङ्गसन्धानाः तथा व्यङ्गितानि-विकलीकृतान्यङ्गानि येषां तेतथा, तथाकङ्काः-पक्षिविषशेषाः कुररा-उत्क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च येवायसास्तेषांगणास्तश्च पुणो'त्ति समुच्चयार्थः स्वराः-कर्कशाःस्थिरा-निश्चलाः ढा-अभङ्गुरा नखा येषां ते तथा लोहवत तुंडं येषां ते तथा ततः कर्मधारयस्तैरवपत्य-उपनिपत्य पक्षराहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आञ्छिते च-आकृष्टे नयने-लोचने निर्दयं च निष्कृपं यथा भवकत्येवं उल्लुगं'तिअवरुग्णंभग्नं विकृत्तंच वदनं येषांते तथा, पाठान्तरेणअवलुग्णानि–छिन्नानि विकत्तानि गात्राणि येषां ते तथा, उक्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इतिचपदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्तचात्तापेन दह्यमानाः निन्दन्तोजुगुप्समानाः ‘पुरेक्खडाई' पूर्वभवकृकतानि कर्माणि-क्रियाः पापकानि-प्राणातिपादादीनि, ततः "तहिं २'ति तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके ताशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि 'उस्सन्नचिक्कणाईति उस्सन्न-प्राचुर्येणचिक्कणाई-दुर्विमोचानिदुःखानि अनुभूयततश्च निरयादायुःक्षयेणोवृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयकत्वात् जन्मजरामरणव्याधीनांयाः परिवर्तनाः-पुनःपुनर्भवनानि ताभिररघट्ट इवारघट्टो या सा तथा तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगत्प्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy