________________
५२४
प्रश्नव्याकरणदशासूत्रम् २/५/४५
काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'विणिहय'त्ति विनिहतचक्षुरित्यर्थः,
तत्र यज्जातस्य चक्षुर्विनिहनेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, सप्पिसल्लग'त्ति सह पिसलकेन-पिशाचकेन वर्ततेयः स तथा ग्रहगृहीत इत्यर्थः,अथवा सर्पतीति सी-पीठसी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः,
व्याधिना-विशिष्टचित्तपीड्या चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितो यः स तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद् दृष्ट्वेति प्रकृतं, विकृतानि च मृतककडेवराणि ‘सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिपुरुषादिद्रव्यसमूहं दृष्टवेति प्रक-तं, तेष्विति सम्बन्धात् तेषु गण्ड्यादिरूपेषु अन्येषु चैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव २ ।
'तइयं तितृतीयं भावनावस्तु गन्धसंवृतत्वं, तम्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान् मनोज्ञभद्रकान् 'किं ते तितद्यथाजलजस्थलजसरसपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं-उत्पलकुष्ठं 'तगर'त्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'चोय'त्ति त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसि'त्ति पक्वासंस्कृता मांसीतिगन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसंयच्चन्दनं तत्तथा कर्पूरो-धनसारः लवङ्गानि फलविशेषाः अगुरुः-दारुविशेषः कुङ्कुम-कश्मीर कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं- श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां-सद्गन्धानां साराङ्गानांप्रधानदलानांयुक्तिः-योजनं येषुवरधूपवासेषुते तथा तेच तेवरधूपवासाश्चेति समासः ततस्तानाघ्राय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति
ऋतुजः-कालोचित इति भावः पिण्डिमो-बहलः निरिमो-दूरनिर्यायी यो गन्धः स विद्यते येषुतेतथा तेषुअन्येषु चैवमादिकेषुगन्धेषु मनोज्ञभनकेषुन श्रमणेन सक्तव्यमित्यादिकं किं तेइत्येतदन्तंपूर्ववत्, तथा अहिमृतादीन्येकादशप्रतीतानि नवरंवृकः-ईहामृगःद्वीपी-चित्रकः एषांचाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं श्यंतत आघ्रायेति क्रियायोजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवमिमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमिण'त्ति कृमिवन्ति बहुदुरभिगन्धानि च–अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषुअन्येषु चैवमादिकेषुगन्धेषुअमनोज्ञपापकेषुन श्रमणेन रोषितव्यमित्यादि पूर्ववत्
'चउत्थं ति चतुर्थं भावनावस्तु जिह्वेन्द्रियसंवरः, तच्चैवम्-जिह्वेन्द्रियेणास्वाधरसांसस्तुमनोज्ञभद्रकान् ‘किंते'त्ति तद्यथा अवगाह:-स्नेहबोलनं तेन पाकतो निर्वृत्तमवगाहिमेपक्वान्नं खण्डखाद्यादि विविधपानं-द्राक्षापानादि भोजनं-ओदनादिगुडकृतं-गुडसंस्कृतं खण्डकृतं च-खण्डसंस्कृतं लड्डुकादि तैलघृतकृतं-अपूपादि आस्वाद्येति प्रकृतं, तेष्विति सम्बन्धात् तेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org