SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययनं-४, एक्कमि बंभचेरे जमिय आराहियंमि आराहियं वयमिणं सव्वं, सीलंतवो य विनओय संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसेय कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जाव सेयट्टिसंजउत्ति, एवं भणियं वयं भगवया,तं च इमं वृ. “जंबू'इत्यादि, तत्रजम्बूरिति आमन्त्रणं एत्तोय'त्तिइतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं 'बंभचेर ति ब्रह्मचर्याभिधानं चतुर्थं संवरद्वारमुच्यते इति शेषः, किंस्वरूपं तदित्याह-उत्तमाः-प्रधाना ये तपःप्रभृतयस्ते तथा, तत्र तपः अनशनादि नियमाःपिण्डविशुद्धयादयः उत्तरगुणाः ज्ञान-विशेषबोधः दर्शनं-सामान्यबोधः चारित्रं-सावधयोगनिवृत्तिलक्षणं सम्यकत्वं-मिथ्यात्वमोहनीयक्षयोपशमादिसमुत्थो जीवपरिणामः विनयःअभ्युत्थानाधुपचारः ततएतेषांमूलमिवमूलं-कारणंयत्तत्तथा, ब्रह्मचर्यवाहितपःप्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह॥१॥ “जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा। पत्यंतो अ अबंभं बंभाविन रोयए मज्झ॥ ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा। आवडियपेल्लियमंतिओविन कुणइ अकजं ।।" यमा-अहिंसादयः नियमाः-द्रव्याघभिग्रहाः पिण्डविशुद्धयादयो वा ते च ते गुणाना मध्येप्रधानाश्च तैर्युक्त यत्तत्तथा, 'हिमवन्तमहंततेयमंतंति हिमवतः पर्वतविशेष षात् सकाशात् महत्-गुरुकं तेजस्वि-प्रभावत् यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च॥१॥ "व्रतानां ब्रह्मचर्यं हि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते॥" -तच्चान्तरीयैरप्युक्तं“एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः। एकतः सर्वपापानि, मधं मांसंच एकतः।।" प्रशस्तं-प्रशस्यं गम्भीरं-अतुच्छं स्तिमितं-स्थिरं मध्यं-देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः-ऋतुतोपेतैः साधुजनैराचरितं-आसेवितं मोक्षस्य च मार्ग इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः अलक्ष्यजनैराचरितं-आसेवितं मोक्षस्य चमार्ग इव मार्गो इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः-अलक्ष्यदैन्यादिविकारैः स्तिमितैःकायचापलादिरहितैःमध्यस्थैः-रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितमोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा-रागादिदोषरहितत्वेन निर्मला य सिद्धिः-कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः-जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाधभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy