SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २८८ उपासकदशाङ्गसूत्रम् २/२५ श्राम्यति अभिरूपं-मनोज्ञप्रतिरूपं-द्रष्टारं द्रष्टारं प्रतिरूपं यस्य 'विकुव्य'-वैक्रियं कृत्वा 'अन्तरिक्षप्रतिपन्नः' आकाशस्थितः सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्केदेविन्दे' इत्यादौयावत्करणादिदंश्यं वजपाणीपुरन्दरेसयक्कऊसहस्सक्खेमघवं पागसासणेदाहिणष्टलोगाहिवईबत्तीसविमाणसयसहस्साहिवईएरावणवाहणेसुरिन्दे अरयम्बरवस्थधरेआलइयमालमउडेनवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डेभासुरवोन्दीपलम्बवणमाले सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए' त्ति, शक्रादिशब्दानांचव्युत्पत्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि-शक्तियोगाच्छनः, देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानांमध्ये राजमानत्वात्-शोभमानत्वाद्देवराजः, वज्रपाणिः-कुलिशकरः, पुरं-असुरादिनगरविशेषस्तस्यदारणात्पुरन्दरः,तथाऋतुशब्देनेहप्रतिमा विवक्षिताः,ततः कार्तिकश्रेष्ठित्वेशतंक्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरितिचूर्णिकारव्याख्या, तथा पञ्चानां मन्त्रिशतानां सहमक्ष्णां भवतीति तद्योगादसौ सहनाक्षः, ततथा मघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति समघवान्, तथा पाको नाम वलवांस्तस्य रिपुःतच्छासनात्पाकशासनः, लोकस्यार्द्धम्-अर्धलोको दक्षिणो योऽर्द्धलोकः तस्य यो ऽधिपतिः स तथा, एरावणवाहणेऐरावतो-हस्ती स वाहनं यस्य स तथा, सुष्टु राजन्ते ये ते सुरास्तेषामिन्द्रः-प्रभुः सुरेन्द्रः, सुराणां-देवानां वा इंद्रः सुरेंद्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादित्वात्, अन्यथा वा पुनरुक्तपरिहारः कार्यः,अरजांसि-निर्मलानिअम्बरम्आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च २ तानि धारयति यः स तथा, आलगितमालम्आरोपितगमुकुटंयस्य सतथा, नवेइवनवेहेम्नः-सुवर्णस्य सम्बन्धिनीचारुणीशोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डी-कपोलौ यस्य स तथा, शेष प्रागिवेति, सामाणियसाहस्सीण मिह यावत्करणादिदं दृश्यं 'तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणंअट्ठण्हंअग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हंअनियाणंसत्तण्हं अनियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' ति, तत्रत्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाःपूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः, अष्टौअग्रमहिष्यः-प्रधानभार्याः, तत्परिवारः प्रत्येकंपञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि, तिःपरिषदः-अभ्यन्तरामध्यमा बाह्याच,सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पञ्चसाङ्ग्रामिकाणि, गन्धर्वानीकंनाट्यानीकंचेतिसप्त, अनीकाधिपतयश्च सप्तंवैप्रधानः पत्तिःप्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतः सहस्राणां चतुरशीत्यः । ___ आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति, देवेणवे'त्यादी यावत्करणादेवं द्रष्टव्यं 'जक्खेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति ।। 'इटी' इत्यादि यावत्करणादिदं दृश्यं 'जुई जसो बलं वीरियं पुरिसक्कारपरक्कमे त्ति।। नाई भुजोकरणयाए न-नैव, आईतिनिपातोवाक्यालङ्कारे अवधारणेवा, भूयःकरणतायां-पुनराचरणे न प्रवर्तिध्ये इति गम्यते ।। मू. (२६) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तएणं से कामदेवे समणोवासए इमीसे कहाए जाव लढे समाणे एवं खलु समणे भगवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003341
Book TitleAgam Sutra Satik 07 Upashakdasha AngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages80
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy