SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अध्ययन-१, २७३ भादर्शनार्था, तथैव वृत्ती व्याख्यातत्वात्, तथा सञ्जवलनोदयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, नमूलच्छेदः, प्रत्याख्यानावरणादीनांतूदये पञ्चानुपूर्व्या सर्वविरत्यादीनां मूलतःछेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपिन देशविरत्यादावतिचाराभावःसिध्यति, यतो यथा संयतस्य चतुर्थानामुदयेयथाख्यातचारित्रंश्यति इतरचारित्रंसम्यकत्वंचसातिचारमुदयविशेषानिरतिचारं च भवतीति एवं तृतीयोदये सरागचरणं ध्रश्यति देशविरतस्य तु देशविरतिसम्यकत्वे सातिचारे निरतिचारे च प्रत्येकं तथैव स्यातां, द्वीतीयोदये देशविरतिभ्रंश्यति, सम्यकत्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यकत्वं भ्रश्यतीति, एवं चैतत्, कथमन्यथा सम्यकत्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सञ्जवलनास्तुदेशघातिन इति, ततश्चसर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति, सत्यं, किन्तु यदेतत्सर्वघातित्वं द्वादशानांकषायाणांतत्सर्वविरत्यपेक्षमेव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यकत्वाद्यपेक्षमिति, तथा हि तद्वाक्यं-"भगवप्पणीयं पञ्चमहव्वयमइयं अट्ठारसीलङ्गसहस्सकलियंचारित्तं घाएन्ति त्ति सव्वघाइणो"त्ति किञ्च-प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गौ देशविरतिसम्यकत्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि, पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं तदेवान्तोमरणान्तः तत्रभवामारणान्तिकी संलिख्यते-कृशीक्रियतेशरीरकषायाद्यनयेतिसंलेखनातपोविशेषलक्षणाततः पदत्रयस्य कर्मधारयः तस्या जोषणा-सेवनातस्याआराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोषणाराधना, तस्याः, इहलोगे'त्यादि, इहलोकोमनुष्यलोकः तस्मिन्नाशंसा-अभिलाषः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा इत्येवंरूपाप्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, 'जीविताशंसाप्रयोगो जीवितं-प्राणधारणंतदाशंसायाः तदभिलाषस्यप्रयोगो, यदि बहुकुलमहं जीवेयम्' इति।अयंहि संलेखनावान्कश्चिदूस्त्रमाल्यपुस्तकवाचनादिपूजादर्शना-बहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचैवंमन्यते, यथा जीवितमेव श्रेयः,प्रतिपन्नानशनस्यापियत एवंविधा मदुद्देशेन विभूतिर्ते' इति ३, 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजायभावे भावयत्यसौ यदि 'शीघ्नं प्रियेऽहम् इतिस्वरूप इति४, कामभोगशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः ५। मू. (१०) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिएपंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं सावयभम्म पडिवजइरत्तासमणं भगवं महावीरं वंदइनमसइ२ त्ता एवं वयासी “नोखलु मेभंते! कप्पइअज्झप्पभिइंअनउत्थिएवाअनउत्थियदेवयाणिवा अन्ननउस्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा, पुब्बि अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असनं वा पानं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्य रायाभिओगेणं गणाभिओगेणंबलाभिओगेणं देवाभिओएगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं कप्पइ मेसमणे निग्गन्थे फासुएणंएसणिज्जेणं असनपानखाइमसाइमेणंवत्थपडिग्गहकम्बलपायपुंछणेणं 718 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003341
Book TitleAgam Sutra Satik 07 Upashakdasha AngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages80
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy