SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अध्ययन-१, २६९ यमतिचारस्तथैवेति२,'धणधन्नपमाणाइछमें तिअनाभोगादेः अथवा लभ्यमानधनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वाधारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्पयपमाणाइक्कमेत्ति अयमपि तथैव,अथवा गोवडवादिचतुष्पदयोषित्सुयथा अभिग्रहकालावधीपूर्ती प्रमाणाधिकवत्सादिचतुष्पदोत्पत्तरिभवति तथा षष्टादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पन्नत्वादिति ४, 'कुवियपमाणाइक्कमेत्ति कुप्यं गृहोपस्करःस्थालकचोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पञ्चैवस्थालानिपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणांतेषां सम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसङ्ख्यावस्थापनेनातिचारोऽयमिति ५, आह च॥१॥ "खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे। जोयणपयाणबन्धणकारणभावेहि नो कुजा ।" दिग्व्रतं शिक्षाव्रतानि च यद्यपि पूर्व नोक्तानितथापितत्र तानिद्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशतास्यादिहेति, कथमन्यथाप्रागुक्तं-"दुवालसविहं सावगधम्मपडिवज्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्मपडिवजई' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौप्रतिपन्नवान् दिग्व्रतं च विरतेरभावाद् उचितावसरे तुप्रतिपत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यच्चोक्तं 'द्वादशविधंगृ-हिधर्मप्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्मंप्रतिपद्यते' तद्यथाकालं तत्करणाभ्युपगमनादनवद्यचमवसेयमिति । तत्र ‘उड्ढदिसिपमाणाइक्कमे त्ति, क्वचिदेवं पाठः, क्वचित्तु ‘उवदिसाइक्कमे'त्ति, एते चोर्ध्वादिगाधतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः १-३, 'खेत्तबुड्डित्ति एकतो योजनशतपरिमाणमभिगहीतमन्यतोदशयोजनान्यभिगृहीतानि, ततश्चयस्यां दिशिदशयोजनानि तस्यां दिशि समुत्पन्ने कार्ययोजनशतमध्यादपनीयान्यानि दशयोजनानितत्रैवस्वबुद्धयाप्रक्षिपति, संवर्धयत्येकत इत्यर्थः,अयंचातिचारोव्रतसापेक्षत्वादवसेयः ४, 'सइअन्तरद्ध' त्तिस्मृत्यन्तर्धास्मृत्यन्तर्धानं स्मृतिभ्रंशः किंमया व्रतंगृ–हीतं शतमर्यादयापञ्चाशन्मर्यादया वा?' इत्येवमस्मरणे योदजनशतमर्यादायामपि पञ्चशतमतिकामतोऽयमातिचारोऽवसेय इति ५।। भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य वाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः' क्रियां जीवनवृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्त- भूतामाश्रित्येत्यर्थः, 'सचित्ताहारे'त्ति सचेतनाहारः,पृथिव्यप्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयंचातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धहारे त्ति सचित्तेवृक्षादी प्रतिबद्धस्यगुन्दादेरभ्यवहरणम्, अथवा सचित्ते–अस्थिके प्रतिबद्धंयत्पक्कमचेतनखर्जूरफलादितस्य सास्थिकस्यकटाहमचेतनंभक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापक्षत्वादिति २, 'अप्पउलिओसहिभक्खणय'त्ति अपक्कायाः-अग्निनाऽसंस्कृतायाः ओषधेः-शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ताहारातिचारेणैव अस्य संगृहीतत्वात्किं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003341
Book TitleAgam Sutra Satik 07 Upashakdasha AngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages80
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy