SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१ ५३ न्यस्याख्याति सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपूपयति उपपत्तितः 'इह आगए 'त्ति राजगृहे 'इह संपत्ते' त्ति गुणशिलके 'इह समोसढे त्ति साधूचितावग्रहे । एतदेवाह 'इहेव रायगिहे 'त्यादि 'अहापडिरूवं' ति यथाप्रतिरूपमुचितं इत्यर्थः, 'त' मिति तस्मात् 'महाफलं 'ति महत्फलं - अर्थो भवतीति गम्यं, 'तहारूवाणं 'ति तत्प्रकारस्वभावानां महाफल- जननस्वभावानामित्यर्थः, 'नामगोयस्स' त्ति नाम्नोयादृच्छिकस्याभिधानकस्य गोत्रस्यगुणनिष्पन्नस्य 'सवणयाए 'त्ति श्रवणेन किमङ्ग पुण'त्ति किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं - अभिमुखगमनंवन्दनं स्तुतिः नमस्यनं- प्रणमनं प्रतिप्रच्छनं- शरीरादिवार्ताप्रश्नः पर्युपासनं - सेवा एतद्भावस्तत्ता तथा, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकत्वात् धार्मि'कस्य-धर्मप्रतिबद्धत्वात् वन्दामोत्ति-स्तुमो नमस्यामः -प्रणमामः सत्कारयामः - आदरं कुमोवस्त्राद्यर्चनं वा सन्मानयामः -- उचितप्रतिपत्तिभिः कल्याणं- कल्याणहेतु मङ्गलं-दुरितोपशमहेतुं दैवतं - दैवं चैत्यमिव चैत्यं पर्युपास्यामः - सेवामहे, - एतत् नो - अस्माकं प्रेत्यभवे - जन्मान्तरे हिताय पथ्यान्नवत् सुखाय-शर्मणे क्षमायसंगतत्वाय निःश्रेयसाय - मोक्षाय आनुगामिकत्वाय - भवपरम्परासुखानुबन्धिसुखाय भविष्यतीतिकृत्वा - इतिहेतोर्बहव उग्रा - आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्राः - त एव कुमाराद्यवस्था एवं भोगाः - आदिदेवेनैवावस्थापितगुरुवंशजाताः राजन्या - भगवद्वयस्यवंशजाः क्षत्रियाःसामान्यराजकुलीनाः भटाः- शौर्यवन्तो योधाः तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइत्ति क्वचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, - - 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता - धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्चप्रलम्बमानः कटसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्तिपुरुषाणां वागुरेव वागुरा - परिकरं च महया - महता उत्कृष्टिश्च - आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादश्च बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव - जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं' ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा - एकं भगवन्तं अभिमुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमंच णं'ति इतश्च 'रायमग्गंच ओलोएमाणे एवं च णं विहरइ, तते सेमे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ पासित्ता' इत्यादि स्फुटं, इन्द्रमहः – इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कन्दः - कार्त्तिकेयः रुद्रः--प्रतीतः शिवो- महादेवः वैश्रमणो - यक्षराट् नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषी चैत्यं - सामान्येन प्रतिमा पर्वतः -- प्रतीत उद्यानयात्रा - उद्यानगमनं गिरियात्रा - गिरिगमनं 'गहियागमणपवित्तिए' ति परिगृहीतागमनप्रवृत्तिको गृहीतवार्त्त इत्यर्थः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy