________________ 18 ज्ञाताधर्मकथाङ्ग सूत्रम्-9-19/१० च-हस्त्यादि सैन्यं वाहनं च-वेसरादिकंपुरंच-नगरमन्तःपुरंच-अवरोधनं स्वयमेव-आत्मनैव समुप्रेक्षमाणो-निरूपयन् समुप्रेक्षमाणो वा व्यापारयन् इह च द्विवचनमाभीक्ष्यण्येऽवसेयं, 'विहरति आस्ते स्म। मू. (11) तस्स णं सैणियस्स रनो धारिणी नामं देवी होत्या। . जाव सेणियस्स रन्नो इवा जाव विहरइ। वृ. 'धारणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीनपंचेंदियसरीरा लक्खणवंजणगुणोववेया मानुम्माणपमाणसुजायसंव्वगंसुदरंगी ससिसोमाकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमीतो-मुष्टिग्राह्यस्त्रिवलीको-रेखात्रयोपेतो बलितो-बलवान् मध्यो-मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत् कार्तिकीचन्द्र इव विमलं--प्रतिपूर्ण सौम्यंच वदनंयस्याःसातथा कुंडलुल्लिहियगंडलेहा'; कुण्डलाभ्यामुल्लिखिता-धृष्ट गण्डलेखाः कपोलविरचितमृगमदादिरेखा यस्याः सा तथा सिंगारागारचारुवेसा' शृङ्गारस्यरसविशेषस्यागारमिवागारंअथवा शृङ्गारो-मण्डनूषणाटोपातप्रधानःआकारः-आकृतिर्यस्याः सा तथा, चारुर्वेषो-नेपथ्यं यस्याःसा तथा, ततः कर्मधारयः, तथा संयगगयहसियभणियविहिय विलाससललियसंलावणिउणजुत्तोवयार कुसला' संगता-उचिता गतहसितमणितविहितविलासा यस्याःसा तथा, तत्र विहितं-चेष्टितं, विलासोनेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया से संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता येउपचारालोकव्यवहारास्तेषुकुशलायासा तथा, ततः पदत्रयस्य कर्मधारयः, ___'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यञ्चक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नो इट्ठा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुन्ना सुन्दरत्वात् 'नामधेजा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वाधार्य-हृदिधरणीयं यस्याः सा तथा, 'वेसासिया विश्वसनीयत्वात् ‘सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्बहुमता-बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमती 'भंडकरंडगसमाणा' आभारणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला इव सुसंगोविया' तैलकेला-सौराष्ट्रप्रसिद्धोमृन्मयस्तैलस्यभाजनविशेषः सच भङ्गभयाल्लोचनभयाच्च सुष्टुसंगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जूषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया सुसंरक्षितेत्यर्थः, कुत इत्याह, ‘मा णं सीयं मा णं उण्हं माणंदंसामाणंमसगामाणंवालामाणंचोरामाणंवाइयपित्तियसंभियसन्निवाइयविविहरोगायंका फुसंतुत्तिकटु सेणिएणं रन्ना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरति' माशब्दा निषेधार्थाः,णकारावाक्यालङ्कारार्थाः,अथवा मानणंतिमैनामितिप्राकृतत्वात्, व्यालाः-श्वापदभुजगाः रोगाः कालसहाः आतङ्काः-सद्योघातिनः, इतिकट्ठ इतिकृत्वा इतिहेतोभॊगभोगान्अतिशयवद्भोगानिति, For Private & Personal Use Only Jain Education International www.jainelibrary.org