________________
श्रुतस्कन्धः -१, वर्ग:-,
अध्ययनं- 9
प्रदर्शनार्थं, तथाहि-- उत्पन्न श्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः,
अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुं स जात श्रद्धः, कथं जात श्रद्धो ?, यस्माज्जातसंशयः, षष्ठाङ्गार्थः पञ्चमाङ्गार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः, कीशो नाम षष्ठाङ्गस्यार्थो भविष्यति कथं च तमहमव- भोत्स्ये ? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्न श्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उडाए ० ' तिउत्थानमुत्था - ऊध्व "वर्त्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे' त्यादि प्रकटं,
'अज्जसुहम्मे थेरे' इत्यत्र षष्ठयर्थे सप्तमीति 'तिखुत्तो' त्ति त्रिकृत्वस्त्रीन् वारान् 'आदक्षिणप्रदक्षिणां' दक्षिणपार्थ्यादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणा तां 'अजसुहम्म थेरं' इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो--दक्षिणपार्श्वर्ती यः स तथा तं 'करोति' विदघाति बन्दते - वाचा स्तौति नमस्यति कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे' त्ति श्रोतु मिच्छन् 'नमंसमाणे' त्ति नमस्यन् प्रणमन् अभिमुखः 'पंजलिउडे' त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन 'पज्जुवासमाणे' त्ति पर्युपासनां विदधानः 'एव' मिति वक्ष्यमाणप्रकारं 'वदासि' त्ति अवादीत्,
१५
यदवादीत् तदाह-‘जई’त्यादि प्रकटं, नवरं यदि भदन्त ! श्रमणेन पञ्चमाङ्गस्यायमर्थःअनन्तरोदितत्वेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्य कोऽर्थः प्रज्ञप्त इति प्रश्नवाक्यार्थः, अथोत्तरदानार्थं 'जम्बूनामे' त्ति जम्बू ! इति एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवमवादीत्
Jain Education International
-
'नायाणि' त्ति ज्ञातानि - उदाहरणानीति प्रथमः श्रुतस्कन्धः 'धम्मक हाओ' त्ति धर्म्मप्रधानाः कथाः धर्मकथा इति द्वितीयः मू. (६) उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥ वृ. 'उक्खित्ते 'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारदजीवेन हस्तिभवे वर्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत्क्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम् उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं, ज्ञातता चास्यैवं भावनीया - दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तैकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा संघाटकः श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा यथं च ज्ञातत्वं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २ । नवरं अण्डकं-मयूराण्डं ३ । कूर्म्मश्च कच्छपः ४ | सैलको राजर्षिः ५ । तुम्बं च - अलाबुः ६ रोहिणी श्रेष्ठिवधूः ७ । मल्ली - एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक् तत्पुत्री माकन्दी शब्देनेह गृहीतः ९ । चंद्रमा इति च १० |
मू. (७)
दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, अतिने १७ सुंसुमा इय १८ ॥
वृ. 'दावद्दवे 'ति समुद्रतटे वृक्षविशेषाः ११ । उदकं - नगरपरिखाजलं तदेव ज्ञातम् - उदाहरणं उदकज्ञातं १२ | मण्डूकः नन्दमणिकार श्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलि
For Private & Personal Use Only
www.jainelibrary.org