________________
भगवती अङ्गसूत्रं (२) २५/-/६/९१५ माणेनासङ्घयेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाचरणपर्यवाग्र नव सहस्राण्यष्टशे च शतानि पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसी लोकाकाशप्रदेशपरिमाणासङ्घयेयकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्घयेयभागहीनः 'संखेज्जभागहीणे व 'त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य उत्कृष्टसङ्घयेयकेन कल्पनया दशकपरिमामेन भागे हृते लब्धं सहस्रं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि ततोऽसावुत्कृष्टसङ्घयेयकभाग- हारलब्भेन सहस्रेण हीनः ।
४१८
'संजगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवानं च सहस्रं ततश्चोत्कृष्टसङ्घयेयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि स च तेनोत्कृष्टसङ्घयेयकेन कल्पनया दशक- परिमाणेन गुणकारेण हीनः - अनभ्यस्त इति सङ्घयेयगुणहीनः ।
'असंखेज्जगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्घयेयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि स च तेन लोकाकाशप्रदेशपरिमाणासङ्ख्येयकेन कल्पनयापञ्चाशठप्रमाणेन गुणकारेण हीन इत्यसङ्घयेयगुणहीन इति
'अनंतगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिक षट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैव्याख्येयः, तथाहि-
एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्यै च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्घयेयभागोधिकः, तथा यस्य नव सहस्राणि चरणपर्यवानं तस्माप्रथमः सङ्घयेयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्घयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्घयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽघोऽनन्तगुणाधिक इति ॥
'पुलाए णं भंते! बउसस्से' त्यादि, 'परट्ठाणसन्निगासेणं' ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादि, तत्र पुलाको बकुशाद्धीनसतथाविधविशुद्धयभावात्, 'कसायकुसीलेणं समं छट्टाणवडिए जहेव सट्टाणे' त्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् अविशुद्ध- संयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात् ।
यतः - पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org