SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ ३७६ भगवतीअङ्गसूत्रं (२) २५/-/३/८७२ 'ओयपएसिए'त्ति विषमसङ्ख्यप्रदेशनिष्पन्नं 'जुम्मपएसिए'त्ति समसङ्घयप्रदेशनिष्पन्नं, 'तत्य णं जे से ओयपएसिए पयरवट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्ख्येयप्रदेशावगाढं लोकस्याप्यसङ्खयेयप्रदेशात्मकत्वात् । 'जे से जुम्मपएसिए से जहन्त्रेणं बारसपएसिए' इति, 'जे से ओयपएसिए घनवट्टे से जहन्नेण सत्तपएसिए सत्तपएसोगाढे'त्ति, अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकंघनवृत्तं भवतीति, 'जे से जुम्पएसिए से जहन्नेणं बत्तीसइपएसिए' इत्यादि, अस्य चोपरीश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति। त्र्यम्रसूत्रे-'जे से ओयपएसिए से जहन्नेणं तिपएसिए'त्ति, अस्य स्थापना- 'जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए'त्ति 'जे से ओयपएसिए से जहन्नेणं पणतीसपएसिएत्ति, अस्य पञ्चदश-प्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपर षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशप्रदेशा इति । ___जे से जुम्मपएसिए से जहन्नेणंचउप्पएसिए' इति, अस्य स्थापना-अत्रैकस्योपरिप्रदेशो दीयत इत्येवं चत्वार इति। चतुरस्रसूत्रे-'जे से ओयपएसिएजे जहन्नेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए'त्ति, एवं जेसे ओयपएसिएसे जहन्नेणं सत्तावीसपएसिए"त्ति, एवमेतस्य नवप्रदेशिकप्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरनं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए' अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति। आयतसूत्रे-'सेढिआयए'त्ति श्रेण्यायतं-प्रदेशश्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, १ तदेव युग्मप्रदेशिकं द्विप्रदेशिकं 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए'त्ति एवं-तदेव युग्मप्रदेशिकंजघन्यं षट्प्रदेशिकं तच्चैवं-एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्रदेशिकं अस्योपर्यन्त प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशप्रदेशिकं जघन्यमोजः प्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं, तच्चैवम्- एतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति । ___'परिमंडलेणमित्यादि, इहओजोयुग्मभेदौनस्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्रदेशिकघनपरिमण्डलं भवतीति । अनन्तरं परिमण्डलं प्ररूपितम्, अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह मू. (८७३) परिमंडलेणंभंते! संठाणेदव्वट्ठयाए किंकडजुम्मे तेओएदावरजुम्मेकलियोए गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलियोए, वडे णं भंते ! संठाणे दवट्ठयाए एवं चैव एवं जाव आयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy