SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ ३६२ भगवतीअङ्गसूत्रं (२) २४/-/२३/८५९ वृ. 'जहन्नेणंदोअट्ठभागपलिओवमाइंति द्वीपल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समब्महियाईति त्रीण्यसङ्ख्यातायुः-सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यमधिकमुक्त। एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषे, यद्यपि पल्योपमाष्टभागाद्धीनतरमपिजघन्यतआयुष्कंभवति तथाऽपिज्योतिषां ततोहीनतरंनास्ति, स्वायुस्तुल्यायुर्वन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, तेच विमलवाहनादिकुलकरकालात्पूर्वतकालभूचो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहन्नेणं अट्ठभागपलिओवमट्टिईएसु' इत्याधुक्तम्। ___ 'ओगाहणा जहन्नेणं घणुहपुहत्तंति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पादनपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाईति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं, यतो विमलवाहनोनवधनुःशतमानावगाहनःतत्कालहस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकत प्रमाणा भवन्तीति। “जहन्नकालट्ठिइयस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग भावितं चैतदिति, सप्तमादिगमेषत्कृष्टैव त्रिपल्योपमलक्षणा तिरश्च स्थिति, ज्योतिष्कस्यतुसप्तमेद्विविधाप्रतीतैव, अष्टमे पल्योपमाटभागरूपा, नवमेसातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्य 'एते सत्त गम'त्तिप्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त। असङ्घयातवर्षायुष्कमनुष्याधिकारे-'ओगाहणा सातिरेगाइं नवधणुसयाईति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, 'तिन्नि गाउयाईति एतच्चैकान्तसुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमए'त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ।। शतकं-२४ उद्देशकः-२३ समाप्तः -शतक-२४ उद्देशकः-२४:मू. (८६०) सोहम्मदेवा णं भंते ! कओहिंतो उवव० किं नेरइएहितो उवव० भेदो जहा जोइसियउद्देसए, असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएणंभंते!जेभविए सोहम्मगदेवेसु उवव० से णं भंते ! केवतिकाल०?, गोयमा ! जह० पलिओवमट्टितीएसु उक्कोसे० तिपलिओवमद्वितीएसु उवव०॥ तेणं भंते! अवसेसं जहा जोइसएस उववजमाणस्स नवरं सम्मदिट्ठीवि मिच्छादि० नो सम्मामिच्छादिट्ठी नाणीवि अन्नाणीविदो नाणा दो अन्नाणा नियम ठिती जह० दो पलिओवमाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy