________________
३५९
शतकं-२४, वर्ग:-, उद्देशकः-२१ स्थितिमाश्रित्य मासपृथकत्वैः संवेधः कार्य इति भावः, तथाहि-'कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहुत्तममहियाई'इत्यादि।
शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति ।
अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह- 'जइतिरिक्खे'त्यादि, इहपृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरिश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि, एतदेवाह-एवं जच्चेवे'त्यादि, विशेषं पुनराह-'नवरं तईए'इत्यादि तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषुमनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमुर्छिमसङ्ग्रहादयसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति ।
'जाहेअप्पणे'त्यादि, अयमर्थः--मध्यमगमानांप्रथमगमे औषिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जधन्यस्थितिकत्वेनोत्पत्ती, 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । . अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह-‘एवं आउकाइयाणवी'त्यादि।
देवाधिकारे-'एवंजाव ईसाणो देवो'त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशोनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्रजघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यतएवाहएयाणि चेव नाणताणि'त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन . दर्शयि-‘सणंकुमारे'त्यादि, एसाउकोसा ठिई भणियव्व'त्तयदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्यऔधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थिति विसाचोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्य भवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदापुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, साचतथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति द्वयादिसागरोपममानत्वात्तस्या इति।
__ 'आणयदेवेण'मित्यादि, 'उक्कोसेणं छब्भवग्गहणाइंति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवंषट्, 'कालादेसेणंजहन्नेणं अट्ठारस सागरोवमाईतिआनतदेवलोकेजघन्यस्थितेरेवंभूतत्वात्, “उक्कोसेणंसत्तावन्नं सागरोवमाईतिआनते उत्कृष्टस्थितेरेकोनविंशति-सागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति ।
ग्रैवेयकाधिकारे 'एगेभवधारणिज्जे सरीरे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउदिए'त्यादि, प्रैवेयकदेवानामाद्याः पञ्च समुद्घाता- लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यांनतेसमुद्धातं कृतवन्त-कुर्वन्ति करिष्यन्तिवा, प्रयोजनाभावादित्यर्थः
'जहन्नेणंबावीसंसागरोवमाइंतिप्रथमौवेयके जघन्येन द्वाविंशतिस्तेषां भवति ‘उकोसेणं एक्कतीसं'ति नवमग्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेनउई सागरोवमाइं तिहिं पुवकोडीहिं अमहियाइंति इहोत्कर्षतः षड् भवग्रहणानि ततश्चत्रिषुदेवभवग्रहणेषत्कृष्टस्थितिषु
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only