SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशक: नमो नमो निम्मल सणस्स पंचम गणघर श्री सुपस्विामिने नमः ५ भगवतीअङ्गसूत्रं सटीक (अपरनाम-व्याख्या प्रज्ञप्त्यङ्गसूत्र-सटीक) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) ॥१॥ सर्वज्ञमीश्वरमनन्तमसङ्गमयं, सार्वीयमस्मरमनीशमनीहमिद्धम्। सिद्धिं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि।। ॥२॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवद्धेभ्यो, वा] सर्वविदस्तथा ॥ ॥३॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ।। व्याख्यातं समवायाख्यं चतुर्थमङ्गम्, अथावसरायातस्य 'विवाहपन्नत्ति'त्तिसज्ज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्यवस्वरूपस्य धनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकसय नानाविधाभुतप्रवरचरितस्य षटत्रिंशप्रश्नसहनप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयन्दमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्स्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिकचक्रवालस्यस्याद्वादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया महातामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानांसंघट्टनेन बृहत्तराअत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पि-कुलोत्पनैरस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना। (शतक-१) । अथ विवाहपन्नत्ति'त्तिकः शब्दार्थ?,उच्यते, विविधाजीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना-कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा-परस्परासंकीर्णलक्षणाभिधान रूपया ? ख्यानानि-भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नतपदार्थप्रितपादनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy