SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ १२६ भगवतीअगसूत्रं (२) १३/-/७/५९२ दिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तदद्रव्यापेक्षया पुनस्तद्रहणावधिं यावञ्जीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणाम वैचित्र्यादिति ____ 'आइंतियमरणे' त्त अत्यन्तं भवमान्यन्तिकं तच्च तन्मरणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतयाकर्मदलिकान्यनुभूय म्रियतेमृतश्चनपुनस्तान्यनुभूयपुनर्मरिष्यत इत्येवंयन्मरणं, तच्च तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति 'बालमरणे'त्ति अविरतपरणं 'पंडियमरणे'त्ति सर्वविरतमरणं, तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदन, द्रव्यावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकदन्यावीचिकमरणप्रतिपादनायाह . 'जण्ण'मित्यादि, 'यत्' यस्माद्धेतो रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए'त्ति नैरयिकायुष्कतया 'गहियाईति स्पर्शनतः ‘बद्धाइंति बन्धनतः 'पुट्ठाईति पोषितानि प्रदेसप्रक्षेपतः 'कडाईति विशिष्टानुभागतः ‘पट्टवियाईति स्थितिसम्पादनेन निविट्ठाइंतिजीवप्रदेशेषु अभिनिविट्ठाइंति जीवप्रदेशेष्वभिव्याप्तया निविष्टानि अतिगाढतांगतानीत्यर्थः, ततश्च अभिसमन्नागयाइंति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आविइत्ति, किमुक्तं भवति अनुसमयंति अनुसमयं-प्रतिक्षणम्। एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत् आह-'निरंतरं मरंति'त्ति 'निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः नियन्ते विमुञ्चन्तीत्यर्थः 'इतिकट्ठत्तिइतिहेतो.रयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थ माह-'से तेणद्वेण मित्यादि । - ‘एवंजावभावावीचियमरणे'त्तिइहयावत्करणात् कालवीचिकमरणं भवावीचिकमरणं च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं मंते ! कइविहे पन्नत्ते?, गोयमा! चउबिहे पन्नत्ते, तंजहा–नेरइयकालावीइयमरणे४, सेकेणट्टेणं नेरइयकालावीचियमरणे २?, गोयमा जन नेरइया नेरइयकाले वट्टमाणा इत्यादि, एवं भवावीचिकमरणमप्यध्येयम्। नैरयिकद्रव्यावधिमरणसूत्रे 'जण्णमित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीतियत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इतिशेषः सेतेण?ण मित्यादि निगमनम् पण्डितमरणसूत्रे 'नीहारिमे अनीहारिमे'त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिम, कडेवरस्या निर्हरणीयत्वात्, यच्चगिरिकन्दरादौ विधीयते तदनिहारिम, कडेवरस्यानिर्हरणीयत्वात्, 'निमंअप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्न चेदं भवतीति, 'तंचेवत्ति करणानिरिममनिर्हारिमंचेति दृश्य, सप्रतिकम्मॆवचेदं भवतीति ॥ शतकं-१३ उद्देशकः-७ समाप्तः -:शतक-१३ उद्देशक-८:वृ.अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽटम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (५९३) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पगडीओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy