________________
८६
भगवती अङ्गसूत्रं (२) १२/-/९/५५८
अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो । एएसि णं भंते! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा नरदेवा देवाधिदेवा संखेज्जगुणा धम्मदेवा संखेजगुणा भवियदव्वदेवा असंखेज्जगुणा भावदेवा असंखेज्जगुणा भावदेवा असंखेजगुणा ।
वृ. अथ तेषामेवोद्वर्त्तनां प्ररूपयन्नाह - 'भवियदव्वे' त्यादि, इह च भविकद्रव्यदेवानां भाविदेव भवस्वभावनत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रे तु 'नेरइएसु उववज्रंति' त्ति अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तन्निषेधः, तत्र च यद्यपि केचिचक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धम्र्म्मदेवत्व प्राप्ताविति न दोषः, 'जहा वक्कंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्व'त्ति असुरकुमारा बहुषु जीवास्थानेषु गच्छन्तीतिकृत्वा तैरतिदेशः कृतः, असुरादयो ही शानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ॥ अथ तेषामेवानुवन्धं प्ररूपयन्नाह ।
'भवियदव्वदेवे ण' मित्यादि, 'भवियदव्यदेवेइ' त्ति भव्यद्रव्यदेव इत्यमुंपर्यायमत्यजन्नित्यर्थः 'जहन्त्रेणमंतोमुहुत्त 'मित्यादि पूर्ववदिति । एवं जहेव ठिई सच्चेव संचिट्ठाणवि 'त्ति 'एवम्' अनेन न्यायेन यैव 'स्थिति' भवस्थिति प्राग् वर्णिता सैवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं त्वाह- 'नवर'मित्यादि, धर्ममदेवस्य, जघन्येनैकं समयं स्थिति अशुभभावं गत्वा ततो निवृत्तस्य सुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति । अथैतेषामेवान्तरं प्ररूपयन्नाह ।
'भवियदव्वदेवस्स णं भंते!' इत्यादि, 'जहन्त्रेणं दसवाससहस्साई अंतोमुहुत्तमब्महियाई 'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि कथं ?, भव्यद्रव्यदेवो भूत्वा दशवर्षसहस्रस्थितिषु व्यन्तरादिषूत्पद्य च्युत्वा शुभपृथिव्यादी गत्वाऽन्तर्मुहूर्त्तं स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद्दशवर्षसहस्राण्येव जघन्यतस्यस्यान्तरं भवत्यतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते - सर्वजघन्यायुर्देवश्च्युतः सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतभवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये पुनराहुः - इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाच्युत्वाऽन्तमुहूर्त्तस्थितिकभव्यद्रव्य देवत्वेनोत्पन्नस्यान्तर्मुहूर्तोपर देवायुषो बन्धनाद् यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति ।
1
'नरदेवाण' मित्यादि, 'जहन्नेणं साइरेगं सागरोवमं'ति, कथम् ? अपरित्यक्तसङगाश्चक्रवर्त्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्धं कथं ?, चक्रवर्त्तित्वं हि सम्यग्ध्ष्टय एव निर्वर्तयन्ति तेषां च देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति ।
'घम्पदेवस्स ण' मित्यादि, 'जहन्नेणं पलिओवमपुहत्तं 'ति, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्य ततश्चयुतो धर्म्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पत्योपमपृथक्त्वेऽन्तर्भावितमिति । 'भावदेवस्स ण'मित्यादि, 'जहनेणं अंतोमुहुत्तं 'ति, कथं ?, भावदेवश्चुयतोऽन्तर्मुहूर्त्तमन्यत्र स्थित्वा पुनरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org