SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं १/-/२/२७ तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थं यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह'ओहियाण’मित्यादि, तत्रौधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः सदृशः पाठः, सलेश्यः शुक्लेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा ‘जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति, 'किण्हलेसनीललेसागंपि एगो गमो' औधिक एवेत्यर्थः । विशेषमाह-‘नवरमं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे "दुविहा नेरइया पन्नत्ता - सन्निभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पाद्, 'असन्नी खलु पढम' मिति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह- 'मायिमिच्छदिट्टिउववन्नगा ये 'त्यादि, तत्र मायिनो मिध्याध्ष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्ठायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा- संजया ३, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पत्रत्ता, तंजहा पमत्तसंजयाय अप्पमत्तसंजया य'त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयोर्नाध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् यच्चोच्यते 'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए 'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच्च प्रागुक्तमिति । एतदेव दर्शयन्नाह - 'मणुस्से' त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदेवेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम् नेरइया दुविहा पत्ता, तंजा - सन्निभूयाय असन्निभूया य'त्ति, असञ्ज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह- 'काउलेस्साणवी 'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति चाद्यास्ति एव, भवनपतिपृथिव्याम्बुव-नस्पतिव्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह च - "किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥ "पुढवी आउवणस्सइबायरपत्तेय लेस चत्तारि गब्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ।। ॥१॥ केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तधान वाच्याः, तेजः पद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह - 'तेउलेसा पम्हलेसे' त्यादि । Jain Education International For Private & Personal Use Only ५२ ॥२॥ ॥३॥ www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy