________________
शतकं - ९, वर्ग:-, उद्देशकः - ३३
४९५
उत्तरासंग करेइ उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेमेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पज्जुवासणाए पज्जुवासइ ।
तणं समणे भगवं महावीरं जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसिजावधम्मकहा जाव परिसा पडिगया, तए णं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ट जाव उट्ठाए उट्ठेइ उट्टाए उट्टेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयासी
सदहामि णं भंते! निग्गंथं पावयणं पत्तयामि णं भंते! निग्गंधं पावयणं रोएमि णं भंते ! निग्गंथं पावयणं अब्भुमि णं भंते! निग्गंधं पावयणं एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! जाव से जहेयं तुज्झे वदह, जंनवरं देवाणुष्पिया ! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अनगारियं पव्वयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥
-
वृ. 'फुट्टमाणेहिं' ति अतिरभसाऽऽ स्फालनात्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'भुइंगमत्यएहिं ' ति मृदङ्गानां - मर्दलानां मस्तकानीव मस्तकानि - उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिं'ति द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्रैरित्येके बद्धानि द्वात्रिंशद्धानि तैः 'उवनच्चित्रमाणे'त्ति उपनृत्यमानः तमुपश्रित्य नर्त्तनात् 'उवगिजमाणे 'ति तद्गुणगानात् ‘उवलालिज्जमाणे’त्ति उपलाल्यमान ईप्सितार्थः सम्पादनात् 'पाउसे' त्यादि, तत्र प्रावृट् श्रावणादि वर्षारात्रोऽश्वयुजादि शरत् मार्गशीर्षादि हेमन्तो माघादि वसन्तः चैत्रादि ग्रीष्मो ज्येष्ठादि, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षारात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्म्मधारयोऽतस्तान षडपि 'ॠतून' कालविशेषान् 'माणमाणे' त्ति मानयन् तदनुभावमनुभवन् 'गालेमाणे' त्ति 'गालयन्' अतिवाहयन् ॥
‘सिघाडगतिगचउक्कचचर' इह यावत्करणादिदं दृश्यं - 'चउम्मुहमहापहपेसु'त्ति, 'बहुजणसद्देइ व 'त्तियत्र श्रृङ्गाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजन शब्दः परस्परालापादिरूपः, इतिशब्दो वाक्यालङ्कारे बाशब्दो विकल्पे, 'जहा उववाइए' त्ति तत्र चेदं सूत्रमेवं लेशतः - 'जनवूहेइ वा जनबोलेइ वा जनकलकलेति वा जनुम्मीइ वा जनुक्कलियाइ वा जनसन्निवाएइ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भासइत्ति, अस्यायमर्थः
'जनव्यूहः' जनसमुदायः बोलः अव्यक्तवर्णो ध्वनि कलकलः - स एवोपलभ्यमानवचनविभागः ऊर्म्मि-सम्बाधः उत्कलिका - लघुतरः समुदायः संनिपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनं आख्याति सामान्यतः भाषते व्यक्तपर्यायवचनतः, एतदेवार्थः द्वयंपर्यायतः क्रमेणाहएवं प्रज्ञापयति एवं प्ररूपयतीति, 'अहापडिरूवं' इह यावत्करणादिदं द्दश्यम्- 'उग्गहं ओगिण्हति ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे'त्ति, 'जहा उववाइए' त्ति, तदेव लेशतो दर्श्यते'नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपजुवासणयाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org