SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४९५ शतकं-९, वर्गः-, उद्देशकः-३३ ये नस्ते-नासिकारज्जू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकौ-बद्धौ यौ तौ तथा । ततःकर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाम्यां, नीलोत्पलैः-जलजविशेषः कृतो-विहितः ‘आमेल'त्ति आपीड:-शेखरो ययोस्ती तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां पवरगोणजुवाणएहिँति प्रवरगोयुवाभ्यांनानामणिरलानां सत्कंयद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं-परिक्षिप्तं यत्तत्तथा, सुजातं-सुजातदारुमयं यद् युगं-यूपस्तत्सुजातयुगंतच्च यौकरज्जुकायुगंच-योक्राभिधानरज्जुकायुग्मं सुजातयुगयोत्करज्जुकायुगेते प्रशस्ते-अतिशुभे सुविरचिते सुघटितेनिर्मिते-निवेशिते यत्र यत् सुजातयुगयोकरज्जुकायुगप्रशस्तसुविरचितनिर्मितम् । एव'मित्यादि, एवं स्वामिन्! तथेत्याज्ञयाइत्येवंब्रुवाणा इत्यर्थः 'विनयेन'अञ्जलिकरणादिना। 'तए णं सा देवानंदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं ४श्यते--'अंतो अंतेउरंसि ण्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं। _ 'कयबलिकम्मा' गृहदेवताः प्रतीत्य कयकोउयमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यंकार्यत्वात् यया सा तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानिसिद्धार्थक- दूर्वादीनि 'किञ्चति किञ्चान्यद् 'वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डयएगा- वलीकंठसुत्तउरत्थगेवेअसोणिसुत्तगणाणामणिरयणभूसणविराइयं गी' वराभ्यां पादपराप्तनुपुराभ्यां मणिमेखलया हारेणविरचितै रतितैर्वा उचितैः-युक्तैः कटकैश्च ‘खुड्डाग'त्ति अङ्गुलीयकैश्च एकावल्याच-विचित्रमणिकमय्या कण्ठसूत्रेणच-उरःस्थेनचरूढिगम्येन ग्रैवेयकेण चप्रतीतेन उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरलानां भूषणैश्च विराजितमङ्ग-शरीरं यस्याः सा तथा । 'चीणंसुयवत्थपवरपरिहिया' चीनांशुकं नाम यद्वस्त्राणांमध्ये प्रवरतत्परिहितं-निवसनीकृतंययासातथा 'दुगुल्लसुकुमालउत्तरिजा दुकूलो वृक्षविशेषस्तद्वल्काज्जातंदुकूलं-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा 'सव्वोउयसुरभिकुसुमवरियसिरया' सर्चर्तुकसुरभिकुसुमैर्वृत्ता-वेष्टिताः शिरोजायस्याः सा तथा वरचंदणवंदिया' वरचन्दनं वन्दितंललाटेनिवेशितंययासा तथा वराभरणभूसियंगीति व्यक्तं 'कालागुरुधूवघूविया' इत्यपि व्यक्तं 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते 'खुजाहिति कुब्जिकाभिर्वक्रजवाभिरित्यर्थः 'चिलाइयाहिंति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं श्यं-'वामणियाहिं ह्रस्वशरीराभिः 'वडहियार्हि' मडहकोष्ठाभिः ‘बब्बरियाहिं पओसियाहं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कनीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं' नानादेशेभ्यो-बहुविधजनपदेभ्यो विदेशे तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवस्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy