________________
शतर्क- ९, वर्ग:-, उद्देशकः-३२
पुच्छा जाव उववज्रंति, से केणट्टेणं भंते! एवं बुच्चइ जाव उववज्जति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्रंति नो असयं पुढविकाइया जाव उववज्रंति, से तेणट्टेणं जाव उववज्रंति ।
૪૮૭
एवं जाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणट्टेणं गंगेया एवं वुइ सयं वैमाणिया जाव उववज्रंति नो असयं जाव उववज्रंति ।
वृ. 'संतरं भंते!' इत्यादि, अथ नारकादीनामुत्पादातेः सान्तरादित्वं प्रवेशनकात्पूर्वं निरूपितमेवेति किं पुनस्तन्निरूप्यते? इति, अत्रोच्यते, पूर्वं नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितं, तथैवोद्वर्त्तनायाः, इह तु पुनर्नारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्त्तनयोस्तन्निरूप्यत इति ।। अथ नारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्त्तने निरपयन्नाह
'सओ भंते' ! इत्यादि, तत्र च 'सओ नेरइया उववज्र्ज्जति' त्ति 'सन्तः' विद्यमाना द्रव्यार्थः तया, नहि सर्वथैवासत् किञ्चिदुत्पद्यतेस असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षया वा, तथाहि - भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वाभावनारका एव नारकत्वेनोत्पद्यन्त इति । अथवा 'सओ' त्तिविभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति । 'से नूनं भंते! गंगेया' इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं, यतः पार्श्वेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नरकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति ।
अथ गाङ्गेयो भगवतोऽतिशायिनीं ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह - 'सयं भंते !' इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः ' एवं 'ति वक्ष्यमाणप्रकारं वस्तु 'असयं'ति अस्वयं परतो लिङ्गत इत्यर्थः, तथा 'असोच्च' त्ति अश्रुत्वाऽऽगमानपेक्षम् 'एतेवं' ति एतदेवमित्यर्थः 'सोच्च' त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः 'सर्व एतेवं जाणामि त्ति स्वयमेतदेवं जानामि, परमार्थिःकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम 'सयं नेरइया नेरइएस उववज्रंति' ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते“अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वगं वा श्वभ्रमेव वा ॥” इति
119 11
ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं' ति कर्म्मणामुदितत्वेन, न च कर्म्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह—‘कम्मगुरुयत्ताए त्ति कर्म्मणां गुरुकता कर्म्मगुरुकता तया 'कम्मभारियत्ताए 'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्म्मणां भारिकता कर्म्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह- 'कम्मगुरुसंभारि यत्ताए 'त्ति गुरोः सम्भारिकस्य च भावो गुरुसम्भारिता, गुरुता सम्भारिकता चेत्यर्थः, कर्म्मणां गुसम्भारिकता कर्म्मगुरुसम्भारिकता तया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्रयं शुभकम्मपिक्षयाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org