________________
शतकं - ९, वर्ग:-, उद्देशकः - ३-३०
४५९
परिक्खेवेणं । से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते इत्यादि, इह च वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थः भक्तादाहार्थः उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः, तन्मनुष्याणां च स्थिति पल्योपमा सङ्ख्येवभागप्रमाणा, षण्मासावशेषा-युषश्च ते मिथुनकानि प्रसुवते, एकाशीतंच दिनानि तेऽपत्यमिथुनकानि पालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूद्यन्ते, इत्यादयश्चार्था अभिधीयन्ते इति ।
- वाचनान्तरे त्विदं दृश्यते- 'एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो, नाणत्तं अणुसया उस्सेहो चउसट्ठी पिट्ठकरंडया अणुसज्जणा नत्थि' त्ति, तत्रायमर्थः- उत्रकुरुषु मनुष्याणां त्रीणि गव्यतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह तु चतुःषष्टिरिति तथा- 'उत्तरकुराए णं भंते! कुराए कइविहा मणुस्सा अनुसांति ?, गोयमा ! छव्विहा मनुस्सा अनुसज्जंति, तंजहा - पम्हगंधा मियगंधा अममा तेयली सहा सनिचारी' इत्येवं मनुष्याणामनुषञ्जना तत्रोक्ता इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युक्तानि सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भवानीयानीति, अयं चेहैकोरुकडी- पोद्देशकस्तृतीयः ।
अथ प्रकृतवाचनामनुसृत्योच्यते - किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम् ? इत्याह‘जावे’त्यादि ‘यावत् शुद्धदन्दद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत्, साऽपि कियद्दूरं यावद्वाच्या ? इत्याह
'देवलोकपरिग्गहे' त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः इह चैकैकस्मिन्नन्तरद्वीपे एकैक उद्देशकः, तत्र चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र चैवं सूत्रं
4
'कहिणं भंते ! दाहिणिल्लाणं आभासियमणूसाणं आभासिए नामं दीवे पन्नत्ते ?, गोयमा जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुद्द तिन्नि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामं दीवे पन्नत्ते' शेषमेकोरुकद्वीपवदिति चतुर्थः । एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराञ्चरमान्तादिति पञ्चमः ५ । एवं लाङ्गूलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराञ्चरमान्तादिति षष्ठः ६ । एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तरंपौरस्त्याञ्चरमान्ताल्लवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपो भवतीति सप्तमः ७ । एवं गजकर्णद्वीपोद्दे शकोऽपि, नवरंगजकद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसी वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्तादित नवमः ९ । एवं शष्कुलीकर्णद्वीपोद्देशकोऽपि, नवरमसी लाङ्गूलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १० ।
- एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णां क्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यश्चरमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International