________________
भगवतीअङ्गसूत्रं ८/-/९/४२४ मध्यामाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, अनादिसंबद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति ।
अथ तृतीयो भङ्ग उदाह्रियते- 'तत्थ णं जे से साइए' इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वेऽपि चलनाभावादिति । अथ चतुर्थः भङ्ग भेदत आह- 'तत्थ णंजे से साइए' इत्यादि, 'आलावणबंधे' त्ति आलाप्यते- आलीनं क्रियतएभिरित्यालापनानिरज्ज्वादीनि तैर्बन्धस्तृणादीनामालापनबन्धः 'अल्लियावणबंधे' त्ति अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा -
४२४
'सरीरबंधे 'त्ति समुद्घाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धः, शरीरिवन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति, 'सरीरम्प ओगबंधे 'त्ति शरीरस्यऔदारिकादेर्यः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनिव्यापारेण बन्धः तत्पुदलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः ।
'तणभाराण व 'त्ति तृणभारास्तृणभारकास्तेषां 'वेत्ते 'त्यादि वेत्रलता - जलवंशकम्बा 'बाग'त्ति वल्कः वरत्रा-चर्म्ममयी रज्जुः-सनादिमयी वल्ली-त्रपुष्यादिका कुशा-निर्मूलदर्भा दर्भास्तु समूलाः, आदिशब्दाच्चीवरादिग्रहः, 'तेसणाबंधे 'त्ति श्लेषणा - श्लथद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो यो बन्धः स तथा, 'उच्चयबंधे' त्ति उच्चयः ऊर्द्ध चयनं - राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे' त्ति सङ्गतः उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणाबंधे’त्ति संहननं-अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृत शैलीप्रभवमिति, 'कुट्टिमाणं 'ति मनिभूमिकानां 'छुहाचिक्खिल्ले' त्यादौ 'सिलेस 'त्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'महुसित्य'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण व 'त्ति कचवरराशीनाम् 'उच्चएणं' ति ऊर्ध्वं चयनेन 'अगडतलागनई' इत्यादि प्रायः प्राग् व्याख्यातमेव ।
'देससाहणणाबंधे य'त्ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देशसंहनन बन्धः, 'सव्वसाहणणा बंधेय'त्ति सर्वेण संहनन लक्ष्णो बन्धः- सम्बन्धः क्षीरनीरादीनामिवेति सर्वंहननबन्धः 'जन्नं सगडरहे' त्यादि, शकटादीनि च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनव्याख्यायन्ते तत्र च 'सगड 'त्ति गन्त्री 'रह' ति स्यन्दनः 'जाण' त्ति यानं लघुगन्त्री 'जुग्ग' ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानं 'गिल्लि'त्ति हस्तिन उपरिकोल्लरं यन्मानुषं गिलतीच 'थिल्लि'ति अड्डपल्लाणं 'सीय'त्ति शिविका-कूटाकारेणाच्छादितो जम्पानविशेषः 'संदमानिय'त्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहि' त्ति मण्डकादिपचनभाजनं 'लोहकडाहे' ति भाजनविशेष एव 'कडुच्छयु'त्ति परिवेषणभाजनम् आसनशयनस्तम्माः प्रतीताः 'भंड' त्ति मृन्मयभाजनं 'मत्त 'त्ति अमत्रं भाजनविशेषः 'उवगरण'त्ति नानाप्रकारं तदन्योपकरणमिति । 'पुव्वष्प ओगपञ्चइए यत्ति पूर्वः प्राकालासेवितः प्रयोगो-जीवव्यापारो बेदनाकषायादिसमुद्घातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, पञ्चप्पन्नप
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International