SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शतकं ७, वर्गः, उद्देशकः -४ ३२३ तत्र च षड्विधा जीवा दर्शिता एव, 'पुढवि' त्ति षड्विधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी ६ भेदात्, तथैषामेव पृथिवीभेद- जीवानां स्थितिरन्तर्मुहूर्त्तादिका यथा योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या । तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता तथा कार्यस्थितिर्वाच्या, साच जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, साचैवं प्रत्युत्पन्नपृथिवीकायिकाः समया पहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदसङ्केययगुनित्यादि । 'अनगारे 'त्ति अनगारवक्तव्यता वाच्या, सा घेयम्-अविशुद्धले श्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थः (समर्थः) इत्यादि । 'किरिया समत्त मिच्छत्ते 'ति एवं दृश्यः - अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वाक्रियां मिध्यात्वक्रियांचेति, मिथ्या चैतद्विरोधादिति । शतकं -७ उद्देशकः -४ समाप्तः -: शतकं -७ उद्देशकः-५: वृ. चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आहमू. (३५३) रायगिहे जाव एवं वदासी- खहयरपंचिंदियतिरिक्खजोनियाणं भंते! कतिविहे पंजोणीसंग पन्नत्ते ?, गोयमा ! तिविहे जोणीसंगहे पन्नत्ते, तंजहा- अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएजा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नत्ता । वृ. 'खहयरे'त्यादि, 'जोणीसंगहे' त्ति योनि- उत्पत्तिहेतुर्जीवस्य तया सङ्ग्रहः अनेकेषामेकशब्दा- भिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाज्जायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद्वस्त्रवज्जरायुवर्जिततया शुद्धदेहा योनिविशेषाञ्जाताः पोतादिव वा बोहित्थाज्जाताः पोता इव बावस्त्रसंमार्जिता इव जाताः पोतजाः वल्गुल्यादयः 'संमुच्छिम' त्ति संमूर्च्छनयोनिविशेषधर्मेण निर्वृत्ताः संमूर्च्छिमाः वहिकादयः । 'एवं जहा जीवाभिगमे' त्ति एवं च तत्रैतत्सूत्रम्- 'अंडया तिविहा पन्नत्ता, तंजहा - इत्थी पुरिसा नपुंसया, एवं पोययावि, वत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा' इत्यादि, एतदन्तसूत्रं त्वेवम्- 'अत्थि णं भंते! विभाणाइं विजयाई जयंताई वेजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नत्ता ?, गोयमा ! आवइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाई नव उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं चा उक्कोसेणं छम्मासे वीईवएज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । मू. (३५४) 'जोणीसंग्रह लेसा दिट्ठी नाणे य जोग उवओगे । उववायठितिसमुग्धाय- चवणजातीकुलविहीओ सेवं भंते सेवं भंते त्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy