________________
शतर्क-६, वर्ग:-, उद्देशकः -४
षड् भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवज्जो तियभंगो' त्ति एतस्य क्रोधसूत्रवद्भावना, ‘नेरइएहि छब्भंग’त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च“कोहे माणे माया बोद्धवा सुरगणेहिं छभंगा । माणे माया लोभे नेरइएहिंपि छटभंगा ||"
119 11
२८१
देवा लोभप्रचुरा नरकाः क्रोधप्रचुरा इति, अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गन्नयमन्येषासम्भवात्, एतदेवाह - 'अकसाई' इत्यादि ।
'ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगो' त्ति, औधिकज्ञानंमत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च वहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रोधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति । 'विगलेदिएहिं छभंग 'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनियोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनः पर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विन्नेयं जस्स जं अस्थि' त्ति ।
'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्वज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिस्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह- 'एगिंदियवज्जो तियभंगो' त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं तद्भावना च मत्यज्ञानादिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ 'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौघिको जीवादिः,
- स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो था, वहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति इह सिद्धपदं नाध्येयं, 'मणजोई' इत्यादि, मनोयोगिनो योगत्रयवन्तः सञ्ज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जा, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावनाच मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रदेशत्वाभेऽन्यदूभङ्गकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्ककं, सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गक इत्यर्थः, एतेषु च योग त्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां ततो द्वितीयदण्डके योगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषुच षड्भङ्गीति ।। 'सागारे' त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशास्थाप्रदेशाश्चेत्येक एव, तत्र चान्यतरोपयोगादन्यतरमगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org