________________
शतकं-५, वर्ग-, उद्देशकः-८
२५५
अपदेसा असंखेजगुणा खेत्तादेसेणं चैव सपदेसा असंखेनगुणा दव्वादेसेणं सपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया।
तएणं से नारयपुत्तेअनगारे नियंठीपुत्तं अनगारंवंदइनमसइ नियंठिपुतं अनगारंवंदित्ता नमंसित्ताएयमद्वंसम्म विणएणंभुञ्जोर खामेति र त्ता संजमेणं तवसा अप्पाणंभावेमाणे विहरइ
वृ.'तेण'मित्यादि, ‘दव्वादेसेणं तिद्रव्यप्रकारेणद्रव्यतइत्यर्थःपरमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं'ति एकप्रदेशावगाढत्वादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं तिएकगुणकालकत्वादिना 'सव्वपोग्गलासपएसावी'त्यादि, इह च यत्सविपर्यसादिपुद्गलविचारे प्रक्रान्तेसप्रदेशाप्रदेशा एवतेप्रपिताः तत्तेषां प्ररूपणेसार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहि-सप्रदेशाः साद्धाःसमध्यावा, इतरेत्वनर्द्धा अमध्याश्चेति, अनंत'त्ति तत्परिमाणज्ञानपनपरं तत्स्वरूपाभिधानम् ।
अथ द्रव्यतोऽप्रदेशस्य क्षेत्रादयाश्रित्याप्रदेशादित्वं निरूपयन्नाह-'जे दव्वओ अप्पएसे'इत्यादि, यो द्रव्यतोऽप्रदेशः-परमाणुःसच क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाघवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतत्सु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्यवेकगुणकालकादिस्तदाऽ- प्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति।
निरूपितोद्रव्यतोऽप्रदेशोऽथ क्षेत्रत्तोऽप्रदेशं निरूपयन्नाह-'जे खेत्तओ अप्पएसे'इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्वयणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात, 'कालओभयणाएत्ति क्षेत्रतोऽप्रदेशोयःसकालतोभजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपिस्यादिति 'भावओभयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ।
अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्तं एवं कालतो भावतश्चासौ वाच्यः, तथाहि-'जे कालओ अप्पएसे से दबओ सिय सप्पएसे सिय अप्पएसे' ।
एवं क्षेत्रतो भावतश्च, तथा 'जेभावओअप्पएसे सेदव्वओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति।
उक्तोऽप्रदेशोऽथ सप्रदेशमाह-'जे दव्वओ सप्पएसे'इत्यादि, अयमर्थः-यो द्रव्यतो द्वयणुकादित्वेन सप्रदेशःसक्षेत्रत्तः स्यात्सप्रदेशोद्वयादिप्रदेशावगाहित्वात्स्यादप्रदेशएकप्रदेशावगाहित्वात्, एवं कालतो भावतश्च, तथायः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात्स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्वयादिप्रदेशावगाहित्वाभावत् कालतो भावातश्चासौ द्विधाऽपि स्यादिति, तथा यः कालतःसप्रदेशः स द्रव्यतः क्षेत्रतोभावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थः इति ।
अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह-एएसि ण'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org