________________
शतकं-५, वर्गः-, उद्देशकः-७
२५३ श्रद्धत्तइति बोधेः सम्यक्श्रद्धानपयित्वादिति तृतीयः, तथा हेतुम् अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक् श्रद्धत्त प्राप्नोतीति चतुर्थः, तथा 'हेउं छउमत्थे' त्यादि, हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियतेकरोतीति पञ्चमः।
__ प्रकारान्तरेण हेतूनेवाह-पंचे'त्यादि, ‘हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् ‘अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् ‘हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियतेइति पञ्चमः ।।अथ मिथ्याष्टिमाश्रित्य हेतूनाह-पंचे त्यादि, पञ्च क्रियाभेदात् हेतवोहेतुव्यवहारित्वात, तत्र 'हेतुं' लिङ्गनजानाति, नञः कुत्सार्थःत्वादसम्यगवैति मिथ्याष्टित्वात् १, एवं न पश्यति २, एवं नबुध्यते ३, एवं नाभिसमागच्छति४, तथा हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' करोतिमिथ्याष्टित्वेनासम्यग्ज्ञानत्वादिति ५॥हेतूनेव प्रकारान्तरेणाह'पंचे'त्यादि, ‘हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, एवमन्येऽपि चत्वारः ।
अथोक्तविपक्षभूतानहेतूनाह-पंचे त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवःकेवलिनः, ते च पञ्च क्रियाभेदात् तद्यथा-'अहेतुं जाणइत्ति अहेतु-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिकंजानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवंपश्यतीत्यादि, तथा अहेतुं केवलिमरणं मरइ'त्ति अहेतु निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं नियते' करोतीत्यहेतुरसौ पञ्चम इति।
प्रकारान्तरेणाहेतूनेवाह-पंचे' त्यादितथैव नवरम् अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि ३, अहेउणा केवलिमरणंमरइत्ति अहेतुना' उपक्रमामावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति।।
अहेतूनेव प्रकारान्तरेणाह-'पंच अहेऊ' इत्यादि, 'अहेतवः अहेतुव्यवहारिणः, तेच पञ्च ज्ञानादिभेदात्, तद्यथा- 'अहेउंनजाणइ'त्ति, अहेतुं न हेतुभावेन स्वस्थानुमानानुत्थापकतयेत्यर्थः 'नजानाति' नसर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नजोदेशप्रतिषेधार्थःत्वात् ज्ञातुश्चावध्यादिज्ञानवत्वात् कथञ्चिज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा अहेउंछउमत्थमरणंमरइत्तिअहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणमकेवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह'पंचे' त्यादि, तथैव नवरम् अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति । गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थं तु बहुश्रुता विदन्तीति॥
शतकं-५, उद्देशकः-७ समाप्तः
शतकं-५ उद्देशकः-८:कृ. सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्
म. (२६२) तेणं कालेणं २ जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org