________________
२१६
भगवतीअगसूत्रं ४/-/९/२११
॥२॥
-शतकं-४ उद्देशक-९:वृ. अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम्
मू. (२११) नेरइएणं भंते ! नेरतिएसु उववजइ अनेरइए नेरइएसु उववज्जइ पनवणाए लेस्सापए ततिओ उद्देसओ भानियव्यो जाव नाणाई।
वृ. 'नेरइएणमित्यादि, लेस्सापए'त्तिसप्तदशपदे 'तइओउद्देसओ भानियब्वोत्तिक्वचिद् द्वितीय इति श्यते स चापपाठ इति, स चैवम्-‘गोयमा ! नेरइए नेरइएसु उववजइनो अनेरइए नेरइएसु उववज्जइ' इत्यादि, अयं चास्यार्थः- नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत्?, उच्यते, यस्मान्नारकादिभवोपनाहकमायुरेवातो नारकाद्यायुः-प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः ॥१॥ “पलालं न दहत्यग्निर्भिद्यते न घटः कचित् ।
न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ।।
नारकव्यतिरिक्तश्च, नरके नोपपद्यते।
नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते॥ इत्यादीति, 'जाव नाणाई'त्ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, सचायम्'कण्हलेस्से णं भंते ! जीवे कयरेसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, दोसु होज्जमाणे आभिनिबोहियसुयनाणेसु होज्जा' इत्यादि ।।
शतकं-४, उद्देशकः-९ समाप्तः
-शतकं-४ उद्देशकः-१०:वृ. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्
मू. (२१२) से नूनं भंते ! कण्हलेस्सा नीललेस्संपप्प तारुवताए तावन्नताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयव्वो जाव
वृ. 'सेनून'मित्यादि, 'तारूवत्ताए'त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति'तावन्नत्ताए'त्ति तस्या इवनीललेश्यावाइववर्णोयस्याः सातद्वर्णा तद्भावस्तत्तातयातद्वर्णतया, "एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्टव्यम्-'तागंधत्ताए तारसताए ताफासत्ताए भुञ्जो २ परिणमति? हंता गोयमा! कण्हलेसानीललेसंपप्पतारूवत्ताए ५ भुञ्जो २ परिणमति' अयमस्य भावार्थःयदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्यानि गृहीत्वा कालं करोति तदानीललेश्यापरिणत उत्पद्यते ‘जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववजइत्ति वचनात्, अतः कारणमेव कार्यं भवति, 'कण्हलेसा नीललेसं पप्पे'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति ।
से केणठेणं भंते! एवं वुच्चइ किण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुञ्जो २ परिणमइ गोयमा ! से जहानामए-खीरे दूर्सि पप्प (तक्रमित्यर्थः) सुद्धे वा वत्थे रागं पप्प तारूवत्ताए भुजो २ परिणमइ, से एएणठेणं गोयमा! एवं बुच्चइ-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org