SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:-, उद्देशक:-७ सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति । 'अहे' इति तिर्यग्लोके 'वैमानिया ण पमाणस्स' त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामद्धं ज्ञातव्यं 'सेसा नत्थि 'त्ति सुधर्मादिकासभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, 'सोमकाइय'त्ति सोमस्य कायो- निकायो येषामस्ति सोमकायिकाः सोमपरिवारभूताः 'सोमदेवकाइय'त्ति सोमदेवताः- तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूव'त्ति तारकरूपाः 'तम्मत्तिय'त्तितत्र - सोमे भक्ति - सेवा बहुमानो वा येषां ते तद्भक्तिकाः 'तप्पक्खिय'त्ति सोमपाक्षिकाः ' सोमस्य प्रयोजनेषु सहायाः 'तब्भारिय'त्ति 'तद्भार्या' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्या, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः २०७ 'गहदंड' त्ति दण्डा इव दण्डाः - तिर्यगायताः श्रेणयः ग्रहाणां - मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धायताः श्रेणयः, 'गहगज्जिय'त्ति ग्रहसञ्चालादौ गर्जितानि स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेनितयाऽवस्थानानि ' ' ग्रहसिङ्घाटकानि' ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि 'ग्रहापसव्यानि' ग्रहाणामपसव्यगमानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः 'गन्धर्वनगरानि' आकाशे व्यन्तरकृतानि नगराकाप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोद्धोता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यतमस्यां दिशि अधोऽन्धकारा उपरि प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः 'जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यै- सन्ध्याछेदा आब्रियन्ते ते यूपकाः 'जक्खालित्तय'त्ति 'यक्षोद्दीप्तानि ' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका - धूम्रवर्णा घूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्धाय'त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि 'पडिचंद' तति द्वितीयचन्द्राः 'उदगमच्छ' त्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम् । अन्येत्वाहुः कपिहसितं नाम यदाकाशेवानरमुखसदेशस्य विकृतमुखस्य हसनम्' अमोह' त्ति अमोधा आदित्योदयास्तसमययोरादित्यकिरणविकारजनिताः आताम्राः कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, 'पाईणवाय'त्ति पूर्वदिग्वाताः 'पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणादिदं दृश्यम् -'दाहिणवायाइ वा उदीणवायाइ वा उड्डवायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा वाउब्भामाइ वा वाउक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइ वा झंझावायाइव'त्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्यः 'उत्कलि- कायाताः ' उत्कलिकाभिर्ये वान्ति 'मण्डलिकावाताः' मण्डलिकाभिर्ये वान्ति 'गुञ्जवाताः ' गुञ्जन्तः सशब्दं ये वान्ति 'झञ्झावाता:' अशुभनिष्ठुराः 'संवर्त्तकवाताः ' तृणादिसंवर्त्तनस्वभावा इति । अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानिदर्शयन्नाह - 'पाणक्खय'त्ति बलक्षयाः 'जणक्खय'त्ति लोकमरणानि, निगमयन्नाह - 'वसणब्भूया अनारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना - न केवं प्राणक्षयादय एव, ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकाराः प्राणक्षयादितुल्याः ‘व्यसनभूताः' आपद्रूपाः ‘अनार्या' पापा - त्मकाः न तेऽज्ञाता इति योगः 'अन्नाय'त्ति अनुमानतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy