SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ शतकं-२, वर्गः-, उद्देशकः-२ १३९ अणगारस्स मं भंते ! भावियप्पणो केवलिसमुग्घाय जाव सासयमणागयद्धं चिटुंति, समुग्धायपदं नेयव्वं । वृ. 'कइणं भंते ! समुग्धाए'त्यादि, तत्र ‘हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावेउत्-प्राबल्येन ततश्चैकीभावेनप्राबल्येनचधाताः समुदघाताः, अथ केन सहकीभावः उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः,अथप्राबल्येनघाताः कथम्?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान्शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । ‘सत्त समुग्घाय'त्ति वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह'छाउमस्थिए'त्यादि, 'छाउमस्थियसमुग्घायवर्जति कइणंभंते! छाउमस्थिया समुग्घायापन्नत्ता' इत्यादिसूत्रवर्जितं समुग्घायपर्य'ति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिहनेतव्यं, तच्चैवम् 'कइणंभंते ! समुग्धाया पन्नत्ता?, गोयमा! सत्त समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए' इत्यादि, इह सङ्ग्रहगाथा॥१॥ "वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ।। जीवपदे मनुष्यपदेच सप्त वाच्याः, नारकादिषुतुयथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धतआत्मा वेदनीयकर्मपुद्गलानांशातंकरोति, कषायसमुद्घातेन कषायपुद्गलानांमारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीरादहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येययोजनानि दण्डं निसृजति निसृज्य चयथास्थूलान् वैक्रियशीरनामकर्मपुद्गलान्प्राग्बद्धान्शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम् ___ "वेउब्वियसमुग्धाएणंसमोहणइ २ संखेज्जाइंजोयणाइंदंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयइ"त्ति। एवं तैजसाहारकसमुद्घातावपिव्याख्येयौ, केवलिसमुद्घातेन तुसमुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेष्वपि समुद्घातेषु शरीराजीवप्रदेशनिर्गमोऽस्ति, सर्वेचैतेऽन्तर्मुहूर्त्तमानाः, नवरंकेवलिकोऽष्टसामयिकः, एतेचैकेन्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चांच पञ्च, मनुष्याणां तु सप्तेति ॥ शतकं-२ उद्देशकः-२ समाप्तः -: शतकं-२, उद्देशकः-३:वृ.अथतृतीया आरभ्यते, अस्यचायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताःप्ररूपिताः, तेषुच मारणान्तिकसमुद्घातः,तेनच समवहताः केचित्पृथिवीषूत्पद्यन्त इतीहपृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (११९) कतिणं भंते ! पुढवीओ पन्नताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्यो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy