SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ शतकं-४१, वर्गः-, उद्देशकः ५११ | पंचमं अंगसूत्रं-भगवती समाप्तम् अपरनाम व्याख्याप्रज्ञप्ति समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अमयदेवसूरि विरचिता भगवतीअगसूत्रस्य टीका परिसमाप्ता। प्रशस्तिः ॥१॥ यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोनतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ ॥२॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सद्बुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ।। ॥३॥ चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ।। ॥४॥ तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ।। ॥५॥एकस्तयोः सूरिवरो जिनेश्वरः, व्याख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्ति कृतैषाऽभयदेवसूरिणा ।। तेयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः ।। ॥७॥ श्रीमञ्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः ॥ ॥८॥ यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता! परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ।। ॥९॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वृताख्यकुलसनदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः परागः॥ ॥१०॥ शोधितवान् वृत्तिमिनां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ।। ॥११॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति । मन्मोहतस्तांश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमतं यदस्याम् ।। ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy