________________
भगवतीअङ्गसूत्रं (२) २६/-/११/९९० कर्म्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावायुर्बद्धवान् न बघ्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गकौ, मनुष्याणां तु चरमभङ्गकवर्जासत्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति
'अचरिमे णं भंते! मणूसे' इत्यादि, 'बीससु पएसु' त्ति, तानि चैतानि - जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि५ ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्त ११ वेद १२ सकषाय १३ लोभकषाय १४ सयोगि १५ मनोयोग्यादित्रय १८ साकारोपयुक्ता १९ नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तदुभावादिति ।
४६०
'अलेस्से' इत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोऽप्येवं, नवरं विशेषोऽयं - पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ द्वावे, यत एते ज्ञानावरणीयमबद्धा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भवतीति, 'वेयणिज्जे सव्वत्य पढमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोर्हि प्रथमः प्रागुक्तयुक्तेर्न संभवति द्वितीयस्त्वयोगित्व एव भवतीति ।
आयुर्दण्डके - 'अचरिमे णं भंते! नेरइए' इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीत एव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्बन्धोऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, एवं चतुर्थोऽपि, तृतीये तु न बघ्नात्यायुस्तदबन्धकाले पुनर्भन्त्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्त्तव्येति ।
'बंधिसयं 'ति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् । शतकं - २६ उद्देशकाः -४ -११ समाप्ताः
येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणद्बुधसभाग्रामा जिरं राजयेद्, ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः ॥ शतकं - २६ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे षड्विंशतितमशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता
शतकं - २७
वृ. व्याख्यातं षड्विंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्भन्धः - अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्म्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org