________________
शतकं-१, वर्गः-, उद्देशकः-१
अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् । अविद्यमानं वा रहः-एकान्तरूपो देशः अन्तश्चमध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तर्भयः ।
अथवा-अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जराधुपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः ।
अथवा 'अरहंताणं'ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् ।
अथवा अरहयद्भयः-प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः ।
–'अरिहंताणंति पाठान्तरं, तत्र करिहन्तृभ्यः, आह च॥१॥ "अट्ठविहंपिय कम्भं अरिभूयं होइ सयलजीवाणं।
तं कम्ममरि हंता अरिहंता तेण वुच्चंति ॥ 'अरुहंताण' मित्यपि पाठान्तरं, तत्र 'अरोहद्भवः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात्, आह च॥१॥ "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ।। नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति ।
'नमो सिद्धाणं' ति, सितंबद्धमष्टप्रकारकर्मेन्धनंध्मातं-दग्धंजाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः।
अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म-अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् ।
अथवा 'षिधुसंराद्धौ इतिवचनात् सिद्धयन्ति स्म-निष्ठितार्था भवन्तिस्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतवचनात् सेधन्ति स्म-शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः ।। अथवा सिद्धाः-नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, आह च॥१॥ "मातं सितं येन पुराणकर्म, यो वा गतो निवृतिसौधमूर्ध्नि।
ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ।।
अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञादर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति।
__'नमो आयरियाणं'ति, आ-मर्यादया तद्विषयविनयनरूपया चर्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्या, उक्तञ्च - ॥१॥ "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओय।
गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ॥ अथवा-आचारो-ज्ञानाचारादि पञ्चधा आ-मर्यादया वा चारो-विहार आचारस्तत्र स्वयंकरणात् प्रभाषणात् प्रदर्शनाचेत्याचार्या, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org