________________
समवायः-५५
दसणावरणिजनामाउयाणं तिण्हं कम्मपगडीणं पणपनं उत्तरपगडीओ प० ।
वृ. पञ्चपञ्चाशत्स्थानके त्चिदं लिख्यते, 'मन्दरस्ये त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्रणि योजनानां भवतीत्युक्तं, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहाणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेहविष्कम्भस्य च दशसाहसिकत्वाद्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणिजगत्या बाह्यान्ते पूर्वमाणत्वात्, जंबूद्वीपजगतीविष्कम्भेनचसहजम्बूद्वीपलक्षणं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथगगणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात् ।--
साहिपञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयत, ततश्चैवमतिरिक्तास्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, 'अन्तिमरायंसित्ति सर्वायुःकालपर्यवसानरात्रौ रात्रेरन्ति भागेपापायांमध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्त्तिकमासामावास्यायां स्वातिनक्षत्रेणचन्द्रमसा युक्तेन नागकरणे प्रत्युषसि पयङ्कासननिषण्णः पञ्चपञ्चाशदध्ययनानि 'कल्लाणफलविवागाइंति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परिनिव्वुड़े सव्वदुक्खप्पहीणे'त्ति दृश्यं । _ 'पढमे'त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । 'दंसणे' दर्शनावरणीयस्य नव प्रकृतयो नाम्नोद्विचत्वारिंशत् आयुषश्चत इत्येवं पञ्चपञ्चाशदिति।
समवायः-५५ समाप्तः
((समवायः-५६ ) मू. (१३४) जंबुद्दीवे णं दीवे छप्पन्न नरखत्ता चंदेण सद्धिं जोगं जोइंसु वा ३ । विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था ।
वृ. अथ षट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीवे इत्यादि तत्र चन्द्रद्वयस्य प्रत्येकमष्टा विशतेर्भावात् षट्पञ्चाशनक्षत्राणि भवन्ति ।। विमलस्येह षटपञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति ।
समवायः-५६समाप्तः
(समवायः-५७) मू. (१३५) तिण्हं गणिपिडगाणं आयारचूलियावजाणं सत्तावन्नं अन्झयणा प० तंआयारे सूयगडे ठाणे।
गोधूमस्सणं आवासपब्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स वहुमज्झदेसभाए एसणं सत्तावनंजोयणसहस्साइंअबाहाए अंतरेप०, एवंदगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीस्स ईसरस्स य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org