SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समवायः - ३७ ७९ तन्नायकास्तन्नामानो देवास्तेषां राजधान्य- स्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्घयेयतमे जम्बूद्वीप इति । क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषे, तत्र किल बहवो वर्गा-अध्ययनसमुदायात्मका भवन्ति, तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि चैत्रस्य पौर्णमास्यां षट्त्रिंशदङ्गुलिका पौरुषीच्छाया भवति तदा वैशाखस्य कृष्णसप्तम्यामङ्गलस्य वृद्धिं गतत्वात्सप्तत्रिंशदङ्गलिका भवतीति । समवायः - ३७ समाप्तः समवाय: ३८ मू. (११४) पासस्स णं अरहओ पुरिसादाणीयस्स अठ्ठतीसं अज्जि आसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । हेमवयएरन्त्रवईयाणं जीवाणं धणूपिट्टे अट्ठतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस एगूणवीसइभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं प०, अत्थस्स णं पव्वयरनो बितिए कंडे अडतीसं जोयणसहस्साइं उड्डुं उच्चत्तेणं होत्था । खड्डियाए णं विमाणपविभत्ती बितिए वग्गे अट्टतीसं उद्देसणकाला प० । वृ. अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं 'घणुपिडं' ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतैरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्याधनुःपृष्ठाकारे परिधिखण्डे धनुः पृष्ठे इव धनुः पृष्ठे उच्येते तत्पर्यन्तभूते ऋजुप्रदेशपङक्ती तु जीवे इव जीवे इति, एतत्सूत्रसंवादिगाथार्द्ध "चत्ताली सत्त सया अडतीस सहस्स दस कला य घणु" त्ति । तथा 'अत्थस्स' त्ति अस्तो - मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य - गिरिप्रधानस्य द्वितीयं काण्डं विभागोऽष्टत्रिंशद्योजनसहस्राण्युद्यत्वेन भवतीति, मतान्तरेण तु त्रिषष्टि सहस्राणि यदाह - 119 11 "मेरुस्स तिन्निकंडा पुढवोवलवइरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु । “एक्कागारं तइयं तं पुण जंबूणयमयं होइ । जोयणसहस्स पढमं बाहल्लेणं च बितीयं तु ॥ तेवट्टिसहस्साइं तइयं छत्तीस जोयणसहस्सा। मेरुस्सुवरिं चूला उब्विद्धा जोयणदुवीसं ॥ समवायः - ३८ समाप्तः ॥२॥ ॥ ३ ॥ समवायः-३९ मू. (११५) नमिस्स णं अरहओ एगूणचत्तालीसं आहोहियसया होत्या । समयखेत्ते एगूणचत्तालीसं कुलपब्वया प०-तीसं वासहरा पंच मंदरा चत्तारि उसुकारा। दोच्चच उतथपंचमष्ठट्ठसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीस निरयावाससयसहस्सा प० । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy