________________
३६
समवायाङ्गसूत्रम्-१४/३१
मोहनीयविशेषः, तथा 'सासायणसम्मदिट्टि त्ति सहेषत्त्तव श्रद्धानरसास्वादनेन वर्त्तते इति सास्वादनः, घण्टालालान्यायेन प्रायः परित्यक्तसम्यकत्वः तदुत्तरकालं षडावलिकः, तथा चोक्तम् 119 11 "उवसमसंमत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥ इति
सास्वादनश्चासौ सम्यग्ध्ष्टिश्चेति विग्रहः, 'सम्मामिच्छदिट्ठि' त्ति सम्यक् च मिथ्या च दष्टिरस्येति सम्यग्मिथ्याध्ष्टि-उदितदर्शनमोहनीयविशेषः, तथाऽविस्तसम्यग्धंष्टिर्देशविरतिरहितः विरताविरतो- देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः किच्चित्प्रादवान् सर्वविरतः, अप्रमत्तसंयतःसर्वप्रमारहितः स एव 'नियट्टी' इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शन सप्तकउपशान्तदर्शन सप्तको या निवृत्तिबादर उच्यते, तत्र निवृत्तिः यदुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसायभेदः तत्प्रधानो बादरो- बादरसम्परायो निवृत्तिबादरः, 'अनियट्टिबायरे' त्ति अनिवृत्तिबादरः, स च कषायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए' त्ति सूक्ष्मः सञ्जवलनलोभासङ्घयेयखण्डरूपः सम्परायः कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः ।
अयं च द्विवध इत्याह-उपशमको वा उपशमेणीप्रतिपन्नः क्षपको वा क्षपक श्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति तथा उपशान्तः सर्वथानुदयावस्थो मोहो-मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतरागइत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मूहूर्तं भवति, ततः प्रच्यवत एवेति, तथा क्षीणो- निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थ, अयमप्यन्तर्मुहूर्त्तमेवेति, तथा सयोगी केवली - मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगः शैलेशीगतो ह्रस्वपञ्चाक्षरोद्गिरणमात्रं कां यावदिति चतुर्दशं जीवस्थानमिति ।
'भरहे' इत्यादि, भरतैरावतयोजवा, इह भरतभैरवतं चारोपितगुणकोदण्डाकारं यतस्य योर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा एरावतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति भरतैरावतजीवा ।
-
'चाउरंतचक्कवट्टिस्स' त्ति चत्वारोऽन्ता- विभागा यस्यां सा चतुरन्ता भूमि तत्र भवः स्वामितयेति चातुरन्तः स चासौ चक्रवर्त्ती चेति विग्रहः, रत्नानि स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह - "रलं निगद्यते तज्जातौ जातौ यदुत्कृष्ट" मिति, 'गाहावइ'त्ति गृहपतिःकोष्ठागारिकः 'पुरोहिय- 'त्ति पुरोहितः शान्तिकर्मादिकारी 'बहइ' त्ति वर्द्धकिः - रथादिनिर्मापयिता मणि- पृथिवापरिणामः काकिणी- सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति ।
समवायः - १४ समाप्तः
समवायः - १५
मू. (३२)
पन्नरस परमाहम्मिआ प० तं० ।
वृ. अथ पञ्चदशस्थानके सुगमेऽपि किञ्चिल्लिख्यते, इह स्थितेरर्वाक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्टपरिणामत्वात्परमाधार्मिकाः असुरविशेषाः ये तिसृषु पृथिवीषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org