________________
समवायः-१५
२७
अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं-पर्वदिनमष्टम्यादि तत्रोपवासःअभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव,प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतःआसक्तः पौषधोपवासनिरतः सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः। ___अयमत्र भावः-पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरा मासान् यावच्चतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यतेदशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी 'रत्तीति रात्रौ किं ? अत आह-परीमाणं-स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपषधोपेतस्यपर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनःअबद्धकच्छस्य पच्च मासान् यावत्पञ्चमी प्रतिमा भवतीति, उक्तं च -
अट्ठमीचउद्दसीसुपडिमं ठाएगराईयं । असिणाणवियडभोई मउलियडो दिवसबंभयारी य।
रतिं परिमाणकडो पडिमावजेसु दियहेसु॥त्ति तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइत्ति अस्नायी स्नानपरिवर्जकः, दिवापि चाप्रकाशदेशेन भुङ्को-अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडे'त्तिअबद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्रतिमेति प्रकृतं, अयमत्र भावः-प्रतिमापच्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत्षष्ठी प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः-तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं, इयमत्र भावनापूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्यप्रासुकाहारस्य सप्तमासान्यावत्सप्तमीप्रतिमा भवतीति, तथा आरम्भः-पृथिव्याधुपमद्देनलक्षणः परिज्ञातः-तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमीप्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौमासान्यावदष्टमी प्रतिमेति, तथा प्रेष्याः-आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्यातायेन सप्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेहपूर्वोक्तानुष्ठायिनः आरम्भ परैरप्यकारयतोनवमासान्यावन्नवमी प्रतिमेति,तथा उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं भक्तम्-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं ।
इहायं भावार्थ-पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो व केनापि किच्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्यदशमासान्यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणोनिर्ग्रन्थस्तद्वधस्तदनुष्ठानकरणात्स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपि सम्भावने, भवतिश्रावक इति प्रकृतं, हे श्रमण! हे आयुष्मन् ! इति सुधर्मस्वामिनो जम्बूस्वामिनमामन्त्रयोक्तं इत्येकादशीति, इह चेयंभावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्यकृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयो भिक्षार्थं गृहिकुलप्रेवशे सति श्रमणोपासकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org