SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ समवायाङ्गसूत्रम्-१०/१५ वृ. दशमं स्थानकं सुबोधमेव तथापि किञ्चिल्लिख्यते, इह पञ्चविंशति सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुनां वा ब्रह्मचर्येण वसनम् - अवस्थानं ब्रह्मवर्यवास इति, तथा चित्तस्य- मनसः समाधि- समाधानं प्रशान्तता तस्य स्थानानि - आश्रया भेदा वा चित्तसमधिस्थानानि । तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादायः स्वभावास्तेषां चिन्ता - अनुप्रेक्षा धर्मस्य वाश्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः । 7 'स’इतियः कल्याणभागी तस्य साघोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादेह्यपार्द्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत- जायेत सः किंप्रयोजनाय चेयमत आह-सर्वं निरवशेषं धर्मं- जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयकर्म परिहर्तुम्, इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति । इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमं, तथा स्वप्नस्यनिद्रावशविकल्पज्ञानस्य दर्शनं संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्यते, तद्यथा भगवतो महावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किं प्रयोजनं चेदं ? इत्याह- 'अहातचं सुमिणं पासित्तए 'त्ति यथा येन प्रकारेण तथ्यः- सत्यो यथातथ्यः - सर्वथा निर्व्यभिचार इत्यर्थः तं स्वप्नं स्वप्नफलमुपचारात्तं द्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेः शुभस्वप्नफलस्यदर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् 'सुजाणं' ति पाठः, तत्रावित - थमवश्यंभावि सुयानं-सुगतिं द्रष्टुं ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथस्वप्रदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थामिदं द्वितीयं, तथा सूज्ज्ञानं सज्ज्ञा सा च यद्यपि हेतुवादष्टिवाददीर्धकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्धष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति, सा यस्यास्ति स सञ्जीसमनस्कस्तस्य ज्ञानं सञ्ज्ञानं तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा 'से' तस्यासमुत्पन्न पूर्वं समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह- 'पुब्वभवे सुमरित्तए 'त्ति पूर्वभवान् स्मर्त्तु, स्मृतपूर्वभवस्य च संवेगात्समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीय मिति, तथा देवदर्शनं वा 'से' तस्यासमुप्तपन्नपूर्वं देवद्युतिं विशिष्टां शरीराभरणादिदीप्तं दिव्यं देवानुभावं - उत्तमवैक्रियकरणादिप्रभावं द्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चाग मार्थेषु श्रद्धानदाढर्य धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थं, तथा अवधिज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याहअवधिना-मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमं तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा मनः पर्यज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह 'मनांगते भावे जाणित्तए' अर्द्धतृतीयद्वीपसमुद्रेषु सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतदज्ञानायेत्यर्थ इति सप्तमं तथा केवलज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy