________________
१६४
समवायाङ्गसूत्रम्-२४६ तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव, तथा देवस्यभवनावास्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्यपञ्चविधस्य, तथायदि वैमानिकस्य किंकल्पोपपन्नस्यकल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त ! किंसंस्थितं?, उच्यते, नानासंस्थितं, तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितं, देवानां भवधारणीयसमचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पातीतानां भवधारणीयमेव।
तथा वैक्रियशरीरावगाहना भदन्त ! किंमहती ?, गौतम ! जधन्यतोऽमुलासंख्येयभागमुतकर्षतः सातिरेकं योजनलक्षं, वायोरुभयथा अङ्गुलासंख्येयभागं, एवं नारकस्य जधन्येन भवधारणीयं, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तम्यां, षष्ट्यादिषुत्वियमेव अर्द्धार्द्धहीनेति, उत्तरवैक्रियतुजधन्यतः सर्वेषामप्यङ्गुलसंख्येयभागमुत्कर्षतश्च नारकस्यभवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरचा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योजनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति । अनन्तरोक्तं सूत्र एवाह-एवं जाव सणंकुमारे'त्यादि, एवमिति-दुविहे पन्नत्तेएगिन्दियइत्यादिनापूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियहूरमित्याह-यावत्सन-कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति। _ 'आहारयेत्यादि सुगम, नवरं एव'मिति यथा पूर्वआलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुरसाहारगसरीरे किं गब्भवतियमणुस्साहारगसरीरे किं समुच्छिममणुस्साहारगसरीरे?, गोयमा ! गब्भवक्कंतियमणुस्साहारगसरीरेनो समुच्छिममणुस्साहारगसरीरे, जइगमवक्कंतिय०,' इत्यादिसर्वमूह्यं 'जाव जइ पमत्तसंजयसम्मद्दिट्टिपञ्जत्तयसंखेज्जवासाउयकम्मभूमिगब्भवक्कंतियमणुस्साहारसरीरे' किं इड्डिपत्तमपत्तसंजयसम्मदिट्ठिपजत्तसंखेजवासाउयकम्मभूमिगगब्मवतियमणुस्साहारगसरीरे अणिडिपत्तपमत्तसंजयसम्मदिहिपज्जत्तयसंखेजावासाउयकम्मभूमिगगब्मवक्कंतियमणुस्साहारगसरीरे ?, गोयमा !' द्वितीयस्य निषेधः प्रथमस्य जानुज्ञा वाच्या। एतदेवाह-वयणा विभाणियव्व'त्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणिभणनीयानि, विभागेनपूर्णान्युच्चारणीयानीत्यर्थः, 'आहारयत्ति आहारगसरीरस्स केमहालिया सरीरोगाहणा प०?, गोयमा!' इत्येतत् सूचितं, 'जहन्नणेणं देसूणा रयणीति कथम्?, उच्यते, तथाविधप्रय-लविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात्, न हीहौदारिकादे-रिवाङ्गुलासंख्येयभागमात्रता प्रारम्भकाले इतिभावः।
तेयासरीरे णं भंते'इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यताइह वाच्या, सा चेयमर्थतः-एगिदियतेयगसरीरेणंभंते! कितिविहेप०?, गोयमा! पंचविहे पण्णते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवंजीवराशि प्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् 'सव्वट्ठसिद्धगनुत्तरोववाइयकप्पातीतवे-माणियदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org