________________
समवायः - प्रकीर्णकाः
१५५ राशिििवधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशास्तत्पर्देशश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवंनव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुईस्कन्धादेशाःप्रदेशाः परमाणवश्चेति, तेचवर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति।
जीवराशिििवधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकाराइति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनःप्रत्येक द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रियाअपि, पञ्चेन्द्रियाश्चतुर्द्धनारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात्, पञ्चेन्द्रियति-स्त्रिधाजलस्थलखचरभेदा, तत्र जलचराः पञ्चविधा मत्स्यकच्छग्राहमकरसुंसुमारभेदात् ।
पुनर्मत्स्याअनेकधा-श्लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधाअस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्गुपुलकसीमाकारभेदात् मकरा-मत्स्यविशेषाद्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचराद्विधा-चतुष्पदपरिसर्पभेदात्, तत्रचतुष्पदाश्चतुर्द्धाएकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसा द्विधाउरःपरिसर्पभुजपरिसर्पभेदात्, उरःपरिसश्चितुर्धा-अहिअजगराशालिकमहोरगभेदात्, तबाहयो द्विधा-दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा-चर्मपक्षिणो लोभपक्षिणः समुद्रपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्ग इति गर्भव्युत्क्रान्तिकमनुष्याधिा-कर्मभूमिजा अकर्मभूमिजाअन्तरद्वीपजाश्चेति ।
कर्मभूमिजा द्विविधाः-आर्या म्लेच्छाश्च, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः-क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, ।
देवाश्चतुर्विधाः भवनवास्यादिभेदाभवपतयो दशधाअसुरनागादयः व्यन्तराअष्टविधा पिशाचादयः ज्योतिष्काः पञ्चधा चन्द्रादयः वैमानिका द्विधाकल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा-ग्रैवेयका अनुत्तरोपपातिकाश्चप्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अनुत्तरे' त्यादि।
पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह-'दुविहे'त्यादि, सुगम नवरं 'दण्डओ'त्ति ॥१॥ 'नेरइया १ असुराई १० पुढवाइ ५ वेइंदियादओ ४ मणुया १।
वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं॥ अथानन्तरं प्रज्ञप्तानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह-'इमीसे ण' मित्यादि, अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यं, नवरं ते णं निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, तेच वृत्तत्र्यनचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तुपुष्पावकीर्णा दिविदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्रच वाहुल्यमङ्गीकृत्येदमभिधीयते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org