SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ समवायः प्रकीर्णकाः १४१ स्थितिविशेषाश्च-उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः-प्रभूतभेदाः सम्यगदर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेवच पालनानि उपसर्गाधिसहनानि निरुपसर्गश्चउपसर्गाभावश्चेत्यर्थः। तपांसि च विचित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाःपश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च संलेखनाः तपसा रागादिजयेनच कृशीकरणानि आत्मसंलेखनाः ततःपदत्रयस्यकर्मधारयस्तासां. 'झोसणं ति जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वाव्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु? __कल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषुकानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोदि लब्धा इति शेषः लब्ध्वा च संयमोत्तमप्रधानं संयमं तमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयंअपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशास्वाख्यायन्त इति प्रक्रमः, एते चान्ये चेत्यादि प्राग्वन्नवरं ।। 'संखेज्जाइंपयसयसहस्साइंपयग्गेणं ति किलेकादशलक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति। मू. (२२४) से किंतं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं नगराई उजाणाई चेइयाईवनाइंराया अम्मापियरो समोरसरणा धम्मायरिया धम्मकहाइहलोइयपरलोइअइडिविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओखमा अजवं मद्दवं च सोअंच सच्चसहियंसत्तरसविहोय संजमोउत्तमंच बंभं आकिंचणयातवोचियाओ समिइगुत्तीओ चैव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउविहकम्मरखयम्मि जह केवलस्स लंभो परियाओ जत्तिओ यजह पालिओ मुणिहिं पायोवगओयजोजहिं जत्तियाणि भत्ताणि छेअइत्ता अंतगडो मुनिवरोतमरयोघविप्पुक्को मोक्खसुहमनंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई। . अंतगडदसासुणं परित्ता वायणा संखेज्जा अनणुओगदारा जाव संखेनाओ संगहणीओ, जाव से णं अंगठ्ठायाए अट्ठमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसहस्साइं पयग्गेणं पन्नत्ता संखेजा अखरा जाव एवं चरणकरणपरूवणया आघविजंति ।। सेत्तं अंतगडदसाओ। वृ- ‘से किं त'मित्यादि, अथ कास्ता अन्तकृद्दशाः?, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च तीर्थकरादयस्तेषा दशाः-प्रथमवर्गेदशाध्ययनानीतितत्संख्यया अन्तकृत्दशाः, तथा चाह 'अंतगडदसासुण मित्यादि कण्ठ्यं, वरं नगरादीनि चतुर्दशपदानिषष्ठाङ्गवर्णकाभिहितान्येव, तथा 'पडिमाओ'त्ति द्वादश भिक्षुप्रतिमामासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचं च सत्यसहितं, तत्र शौचंपरद्रव्या- पहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमंच ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग इति। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy