SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्म्मधारयः तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि - रेवतिनक्षत्रं द्वात्रिंशत्तारं ३२ अश्विनि त्रितारं ३५ भरणी ३८ कृत्तिका षट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरस्त्रितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यस्त्रितारं ६१ अश्लेषा षट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं ७६ उत्तरााल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ स्वातिरेकतारं ८५ विशाखा पञ्चतारं ९० अनुराधा चतुस्तारं ९४ ज्येष्ठा त्रितारमित्येवं ७९ सर्वतारामीलने यथोक्तं ताराग्रमेकोनं ग्रन्थान्ताराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति । समवाय: - ९८ समाप्तः समवाय: ९९ मू. (१७८) मंदरे णं पव्वए नवनउर्इ जोयणसहस्साइं उड्डुं उच्चत्तेणं प०, नंदनवनस्स णं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प०, एवं दक्खिणिल्लाओ चरमंताओ उत्तरिल्ले चरमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प० । समवायाङ्गसूत्रम्-९८/१७७ उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साई साइरेगाई आयामविक्खंभेणं प०, दोघे सूरिंडले नवनउइ जोयणसहस्साइं साहियाइं आयामविक्खंभेणं प०, तइए सूरियमंडले नवनउड् जोयणसहस्साई साहियाई आयामविक्खंभेणं प० । इसे रणप्पा पुढवीए अंजणस्स कंडस्स हेडिल्लाओ चरमंताओ वाणमंतरभोजविहाराणं उवरिमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प० । वृ. अथ नवनवतिस्थानके किमपि लिख्यते- 'नंदनवणे' त्यादि, अस्य भावार्थः - मेरुविष्कम्भो मूले दश सहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् योजनै-कादशभागा बाह्यो गिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवति शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च शतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मिलितो यथोक्तमन्तरं प्रायो भवति । 'पढमसूरियमंडले 'त्ति, इह जम्बूद्वीपप्रमाणस्याशीत्युत्तरशते द्विगुणिते अपहृते यो राशि स प्रथममण्डलस्यायामविष्कम्भः, स च नवनवति सहस्राणि षट् च शतानि चत्वारिंशदधिकानि, द्वितीयं तु नवनवति सहस्राणि षट् शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथं ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतदद्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवनवति सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । 'इमीसे ण' मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमं तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि सन्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति । Jain Education International समवायः - ९९ समाप्तः For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy