SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ समवायः - ८८ समवायः-८८ मू. (१६७) एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइ अट्ठासीइ महग्गहा परिवारो प० । दिट्टिवायरसणं अट्ठासीइ सुत्ताइं प०, तं० उज्जुसुयं परिणयापरिणयं एवं अट्ठासिइ सुत्ताणि भाणियव्वाणि जहा नंदीए। मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्टासीइं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउसुवि दिसासु नेयव्वं । बाहिराओ उत्तराओ णं कट्टाओ सूरिए पढमं छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्टासीति इगसद्विभागे महत्तस्स दिवसखेत्तस्स निवुड्डेत्ता रयणिखेत्तस्स अभिनिवुढेत्ता सूरिए चारं चरइ, दक्खिणकट्ठाओ णं सूरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्टिभागे मुहुत्तस्स रयणिखेत्तस्स निवुद्देत्ता दिवसखेत्तस्स अभिनिवुद्दित्ता गं सूरिए चारं चरइ वृ. अष्टाशीतिस्थानके किञ्चिद्विव्रियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमः सूर्यं तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति । ११३ 'दिट्ठिवाए 'त्यादि, दृष्टिवादस्य द्वादशाङ्गस्य परिकर्म्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्चप्रकारस्य 'सुत्ताई' ति द्वितीयप्रकारभूतानि अष्टाशीर्तिभवन्ति 'जहा नंदीए त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः । 'मंदरस्से' त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहस्रमानात् जम्बूद्वीप:ताच्च द्विचत्वारिंशद्योजन सहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद् यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंख- दकसीमाख्यान् वेलन्धरनागराजनिवा सपर्वतानाश्रित्य वाच्यमत एवाह एवं चउसुवि दिसासु नेयव्व' मिति । 'बाहिराओ ण' मित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित् 'बाहिराओ' त्ति न दृश्यते सूर्य प्रथमं षण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे 'त्ति आयान्- आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान्, 'दिवसखेत्तस्स' त्ति दिवसस्यैव 'निवुड्डेत्त' त्ति निवर्ध्य हापयित्वा 'रयणिखेत्तस्स' त्ति रजन्यास्तु अभिवर्ध्य 'सूरिए चारं चरइत्ति भ्राम्यतीति, इह च भावनैवं प्रतिमण्डलं दिनस्य मुहूर्तैकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एव वर्द्धन्त्र इति द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्याद्वयभेदकल्पनया ततो न पुनरुक्तमवसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्खिणकट्टाओ' इति आदिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धि रात्रिहानिश्च भावनीयेति । समवायः-८८ समाप्तः समवायः-८९ मू. (१६८) उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूणउए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । 48 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy