SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० समवायाङ्गसूत्रम्-८४/१६३ 'हरियासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः इहार्थे गाथा - 'धनुपिट्ठकलचउक्कं चुलसीइसहस्स सोलसहिय'त्ति तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीति सहस्राणीति यथोक्तः सूत्रार्थ इति। तथा व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेण तुअष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्दिवगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिढे लक्षे अष्टाशीति सहस्राणि पदानां भवन्तीति। तथा चतुरशीतिर्नागकुमारावासलक्षाणि-चतुश्चत्वारिंशतोदक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीवोत्पत्तिस्थानानि ता एव प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं ? ॥१॥ "पुढविदगअगणिमारुय एकेके सत्त जोणिलक्खाओ । वण पत्तेय अनंते दस चउदस जोणिलक्खाओ॥ ॥२ ॥ विगलिदिएसु दो दो चउरो चउरोय नारयसुरेसु। तिरिएसु होंति चउरो चोद्दसलक्खा उ मणुएसु ॥ इह चजीवोत्पत्तिस्थानानामसंख्येत्वेऽपिसमानवर्णगन्धरसस्पर्शानांतेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुवाइयाण मित्यादि,पूर्वमादिर्येषांतानि पूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषा स्वस्थानात्पूर्वपूर्वस्थानादुत्तरोत्तरस्य संस्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि' स्थानान्तराण्यपि अनन्तरस्थानान्यव्यहितसङ्खयाविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्घयानविशेषा इत्यर्थः अथवा स्वस्थानानि चपूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानि स्वस्थानान्तराणिअथवा स्वस्थानात्-प्रथमस्थानात् पूर्वाङ्गलक्ष-णात्स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानस्थानान्तराणितेषां चतुरशीत्या लक्षैरिति शेषः, गुणकारः-अभ्यासरासिः प्रज्ञप्तः। तथाहि-किल चतुरशीत्या वर्षलक्षैः पूर्वाङ्गं भवतीति स्वस्थानं, तदेव चतुरशीत्या लक्षैर्गुणित . पूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवतीति, इह सङ्ग्रहगाथा । ॥१॥ 'पुचतुडियाडडाववहुहूय तह उप्पले य पउमे य। नलिणच्छिनिउर अउए नउए पउए य नायव्यो।। . ॥२॥ . चूलियसीसपहेलिय चोइस नामा उ अङ्गसंजुत्ता। अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं॥ अभिलापश्चैषां-पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासिति'मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं,इह विभागोऽयं। ॥१॥ बत्तीस अट्ठवीसा बारट्ठ चउर सयसहस्साई। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ ॥२॥ पञ्चास चत्त छच्चेव सहस्सा लंत सुक्क सहसारे । सय चउरोआणयपाणएसु तिण्णारणचुयओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy